SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ नानाविधेषु विषयेषु मनोहरेषु, ग्रामा-ऽऽकर-प्रवरपत्तनभूषितेषु । कुर्वन् विहारमनघं नवभिः स कल्पैस्तत्राऽन्यदा पुरि समैन्(द्) मुनिचन्द्रसूरिः ॥७९॥ षड्भिः कुलकम् ॥ तस्य प्रवेशसमयेऽकृत वीरणाण(गः), सर्वोत्तमं महमनन्यमनाः ससङ्गः । सुश्राविकागणयुता जिनडे( दे )विनाम्नी, तद्नेहिनी गुरुगुणांश्च जगौ मनोज्ञान् ॥८०॥ सोऽश्वावबोधकरण] प्रवणं जनानां, कल्याणकारणमकारणमित्रमेकम् । तस्मिन् पुरे यतिपतिः शकुनीविहारे, भक्त्या जिनेन्द्रमनमन्मुनिसुव्रताख्यम् ॥८१।। सङ्घन सार्द्धमगमद् वसतौ प्रभाते, श्रोतुं गिरो निजगुरोः किल वीरणागः । व्याख्यामथाऽकृत दया-गुरु-देवपूजादानादिधर्मकलितां मुनिचक्रवर्ती ॥८२॥ आदाय तं स्वतनयं गुरुसन्निकर्षे, श्रेष्ठ्यन्यदाऽगमदुपांशु तदीयहस्ता(स्त)म् । तेषामदर्शयदुवाच च "कीदृशोऽयं, बालो भविष्यति ?" निवेदय मे प्रसद्य ॥८३।। आपादशीर्षमतिशायिनमादरेण, दृष्ट्वा पिबन्निव गुरुर्गुणरत्नसिन्धुम् । द्वात्रिंशदुच्चपदसम्पदवाप्तिदक्षसल्लक्षणाङ्किततनुं तमथाऽऽलुलोके ॥८४|| नाभौ ध्वनौ विशदसत्त्वगुणे गभीरस्त्वक्-केश-पर्व-नख-दन्तगणेषु चाऽणुः ।
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy