SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३६ पृष्टश्च तेन जिनदेवियुतेन सर्वमामूलचूलमवदच्च स तत्स्वरूपम् ॥७२॥ लाभं तमद्भुततमं तनयस्य दृष्ट्वा, तौ दम्पती मनसि चिन्तयतः स्म हृष्टौ । " चिन्तामणिः किमुत कल्पतरुः समागादस्माकमोकसि किमेष निधिर्नवीनः " ॥७३॥ दोषापहोऽपि शुचिरप्यनिशं जने यो नो तापनो न सगदः पुरुषोत्तमोऽपि । दोषाकरो न न कलङ्कयुतः कलावानप्युच्चकैः कुवलयप्रतिबोधकोऽपि ॥७४॥ वक्रो न र्यो (यो) गिनिवहे कृतमङ्गलोऽपि, सौम्योऽपि यो बत बुधोऽपि न कृष्णकायः । रम्यैर्गुणैर्गुरुरपीह कविद्विषन् न, द्वेषी कलावति न यः कविरप्यजस्रम् ॥७५॥ मण्डो (न्दो) मनागपि न यश्च शनैश्चरोऽपि, यो ब्रह्मचार्यपि सदा नहि तारकारिः । कन्दर्पदर्पदलनोऽपि न कृत्तिवासा, आजन्म सत्यसुमना अपि नाऽकुलीनः ॥७६॥ तत्याज यः षडपि सद्विकृतीर्महात्मा, प्रायो ऽस्तदोषमपिबच्च सदाऽऽरनालम् । नानाविधस्व-परशास्त्रसमुद्रपार गामी पवित्रचरणा (णः) शरणं जनानाम् ॥७७৷৷ यस्तारि (र) कैरिव शशी कलभैरिवेभः, शक्रः सुरैरिव नृपैरिव चक्रवर्ती । वाचंयमैः परिवृतः परितः सदर्पकन्दर्पसर्पति(वि)नतातनयैरनेकैः ॥७८॥ अनुसन्धान- ७१
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy