________________
अनुसन्धान-७१
उच्चार्य पञ्चपरमेष्ठिन आद्यपादं, जाते क्षुतेऽथ समुपाविशदासने सः । श्रुत्वा च तं सकलपूर्वभवं निजं सा, सस्मार मारगृहिणीसमरूपसम्पत् ॥६०॥ सत्याभिधा नृपसुताऽथ सुदर्शनाख्या, सत्कृत्य कृत्यविदलं तमुपासकं सा । पप्रच्छ तत्र नृपपर्षदि शुद्धचित्ता, विश्वातिशायिभृगुकच्छपुरस्वरूपम् ॥६१॥ अश्वावबोधचरितं सकलं निशम्य, सम्यक् पुरा निगदितं श्रवणामृताभम् । सा सिंहलेशतनयेक्षितुमुत्सुकाऽभूदाखण्डलार्चितपदं मुनिसुव्रतेशम् ॥६२॥ याचे प्रभोऽद्य शुभवन्तमहं भवन्तं, किञ्चित् प्रपूरयसि चेन्मम वाञ्छितार्थम् । स्माहेति सा नृपसुताऽऽत्मपितुः पुरस्तादश्वावबोधभवनाभरणं दिदृक्षुः ॥६३।। "पाणिग्रहे कृतभवभ्रमणाग्रहे नो, वाञ्छा न राज्यसुखसम्पदि सर्वथा मे । एकां पुनः पितरहं मुनिसुव्रतांहिसेवां सदाऽप्यभिलषामि सुखेभरेवाम्" ॥६४॥ साऽब्धि विलय तरणीशतसप्तकेन, पित्राज्ञया धनभृतेन ययौ पुरं तत् । तत्राऽर्हतः समुदधारयदश्वबोधकर्तुहं निजकपूर्वभवान्वितं च ॥६५।। आजन्म ब्रह्मनिरता मुनिसुव्रताख्यतीर्थङ्करक्रमसरोरुहराजहंसी ।