________________
३२
धाराधरः किल तदा मुशलप्रमाणधाराभिरन्वहमवर्षदहानि सप्त । तन्वन् भयं क्षणिकयोरु यवासकानां म्लानिं ददच्छिशिरगन्धवहानुयातः ॥४७॥ कोरिण्टकाभिधवने शकुनी तदे ( दै) का, जातप्रसूतिरभवन् (त्) क्षुधया कृशाङ्गी । जीमूतवृष्टिविरतौ प्रचचाल चूर्णि, कर्तुं पुरान्तरपयातभयाशया सा ॥४८॥ विद्वे (द्धे ) षुणा मृगयुणाऽस्तदयेन सोच्चव्यम्नः पपात भुवि कण्ठगतासुराशु । तत्राऽऽययौ व्रतियुगं तदगण्यपुण्ययोगादतर्कितममु[द्र] कृपासमुद्रम् ॥४९॥ तस्यै ददौ सुगतिसङ्गतिकारणं द्राक् प्रज्ञातपञ्चपरमेष्ठिनमस्कृतिं तत् । मृत्वा ततः सपदि सिंहलनामधेयद्वीपाधिपस्य तनयाऽजनि तत्प्रभावात् ॥५०॥ जन्मोत्सवं तनयवत् प्रविधाय पित्रा न(त)स्या द[दे]ऽवितथनाम सुदर्शनेति । धात्रीगणेन परितः परिपाल्यमाना, सोच्चैरवर्द्धत च कल्पलतेव बाला ॥५१॥ बुद्धया जितर्भुगुरुणा गुरुणा नरेन्द्रस्तामध्यजीगपदशेषकलाकलापम् । कन्दर्पसम्भवविकारसरोजसूर्यं, तारुण्यमाप च ततो युवकर्मणं सा ॥५२॥ सम्पूर्णचन्द्रवदनां सरसीरुहाक्षीमुत्तप्तकाञ्चनतनुं स्मरहस्तभल्लीम् ।
१. भक्षम् ।
अनुसन्धान- ७१