________________
ओक्टोबर-२०१६
आराध्य दोषशतदूषितमीश्वरादिदेवं ततो हयभवेऽभवमेवमीश! ||४०||
स्ते ( स्ने) ही पितेव [ त]नयेन चिरप्रवासी, मेघश्च मेघसुहृदेव रजोपहारी । दृष्टो मया त्वमधुना सदयः सहर्षं,
तत् पाहि पाहि जिन! मा मिति सम्यगुक्त्वा ॥४१॥ स्वाम्यन्तिकेऽनशननामनि चित्रभानौ,
हुत्वा निजं वपुरनन्यमनाः स वाजी । प्रापाऽष्टमत्रिदि (द) शमन्दिरमिन्दिरायाः, क्रीडागृहं शिवपुरं क्रमतश्च गन्ता ॥४२॥ [ युग्मम्] अश्वावबोध इति दुष्कृतशत्रुघाति, भूकामिनीतिलककल्पमनल्पसौख्यम् । तीर्थं ततः प्रभृति चारु समस्तलोके, प्रख्यातमेव भृगुकच्छपुरं बभूव ॥४३॥ तस्मिन् पुरे समभवत् सं(स) तपात्ययाख्यः, कालोऽन्यथा (दा) विरहिवर्गकरालकालः । स (सु) केतकीकुटजबन्धुरगन्धलुब्धमुग्धभ्रमद्भ्रमरभूषितदिग्विभागः ॥ ४४ ॥ मार्गा ययुर्जलभरेण सुदुर्गमत्वं, जित्वेव गर्जति निदाघपुरं पयोदः ।
हंसाश्च मानसमगुर्मलिनोदयं हि,
वीक्षे च ( वीक्ष्येव ) यत्र यतयो गमनं न चक्रुः ॥४५॥
श्रीकण्ठकण्ठ-पिक-षट्पद - कज्जलाभा,
१
यत्राऽम्बरे घनघटाः कुतः । उत्पत्तिकारणमशेषमहामहानामुच्चैश्चकासति पयोधिकदानदक्षाः ||४६ ॥
१. भूमौ ।
३१