________________
3.
अनुसन्धान-७१
ये पातयन्ति यजमानयुतं भवान्धकूपे स्वमेकभवसौख्यकृते च पापाः । तेऽमी कथं गुरुधिया सुधिया नृशंसा(सा:), पूज्यन्त उज्झितसमस्तस(सु)धर्मकृत्याः" ॥३४॥ युग्मम् ॥ इत्थं विचिन्त्य मतिमानपि दृष्टिरागयोगात्(द्) विधाय तदकर्म तदोपरोधात् । सम्यक्त्वलाभरहितः शुभदान-शील-, वाञ्छाधिकः प्रकृतिभद्रकतां प्रपन्नः ॥३५॥ आरम्भवान् स्वधनरक्षणबद्धकक्षः, काले विपद्य सममजिततिर्यगायुः । जात्यस्तवाऽभवदयं तुरगः पुरीं तत्, तद्बोधनाय जितशत्रुनृपाऽहमागाम् ॥३६॥ प्राग्जन्मकारितजिनप्रतिमाप्रभावादस्माकमेतदुपदेशवचो निशम्य । लोकेऽष्टमङ्गल इति प्रथिताभिधोऽयमत्र क्षणादपि हयः प्रतिबोधमाप ॥३७|| एवं तदा भगवता मुनिसुव्रतेशा(ना)ऽऽख्यातेऽखिलैरपि जनैर्बहुवर्ण्यमाण:(नः) । आरोहणादिनिजदोषगणं विनिन्द्य, स्वच्छन्दचार्यथ कृतस्तुरगः स राज्ञा ॥३८॥ प्राग्जन्मसंस्मरणतो भवभीतिभीतो, वैराग्यरञ्जितमनास्तुरगप्रधानः । नत्वा ततः सुमुनिसुव्रततीर्थराजमेवं विजिज्ञपदिलातललग्नमौलिः ॥३९॥ "मिथ्यात्वमोहकनकावृतलोचनोऽहं, नाऽनंशिषं सुखद! पूर्वभवे भवन्तम् ।