________________
ओक्टोबर-२०१६
आरेभिरे समनुकष्टुमतित्वरैस्तैस्ते साधु पश्यति जने घृतकम्बलार्थम् ॥२७|| तेषामधो बहुतरा उपदेहिकौघा, लग्ना बभूवुरतिप(पि)ण्डितपिण्डभागाः । सर्वत्र वर्त्मनि निपेतुरुरुप्रमाणास्ताः पश्यतो बहुविधस्य तदा जनस्य ॥२८॥ ईशार्चकेन बहुशो भ्रमता जनेन, सञ्चर्यमाणवपुषो ह्युपदेहिकास्ताः । संविक्ष्य सागरवणिक् कृपयाऽऽर्द्रचित्तः, प्राक्रस्त सम्यगपनेतुमथाऽम्बरेण ॥२९॥ "रे रे! जडप्रकृतिभिः सितभिक्षुभिस्त्वं, किं शिक्षितोऽसि करुणा"मिति जल्पताऽथ । एकेन दुष्टमनसा शिवपूजकेन, पादेन बाढमखिला अपि चूर्णितास्ताः ॥३०॥ श्रेष्ठी दयालुरथ सागरदत्तनामा, वैलक्ष्यमात्मनि विधाय पुनः पुनश्च । तस्मिन् क्षणे वदनपङ्कजमालुलोके, तच्छिक्षणार्थमवनीश्वर! तद्गुरोः सः ॥३१॥ तस्मिन्नपि प्रकटपापमुपै(पे)क्षमाणे, तत् सागरश्चरमसागरवद् गभीरः । एवं तदा स हृदि चिन्तयति स्म धीमान्, "नि(नि:)शूकमस्तकमणीन् धिगमूनधर्मान् ॥३२॥ येषां न चेतसि दया जननी वृषस्य, सत्यं समस्तजनसौख्यकरं न वाचि । हस्ते परस्वविमुखत्वमिहेक्ष्यते न, शीलं न वर्मणि परिग्रहवर्जनं नो ॥३३॥