________________
૨૮
अनुसन्धान-७१
तीर्थेश्वरं नरपतिर्जितशत्रुरप्यपृच्छत् सविस्मयमना जितशत्रुवृन्दः । कोऽयं हरिस्त्रिजगतीपतिवन्धपाद!. यः प्रत्यपद्यत वृषं प्रभुरित्यथोचे ॥२१॥ स्वर्गोपमे विबुधराजिनि पद्मिनीखण्डाख्ये पुरेऽजनि धनी जिनधर्मनामा । सुश्रावको जिनपतिक्रमपद्महंसः, सद्धर्मकर्मकरणप्रवणः सदैव ॥२२॥ मित्रं तदीयमजिन(जनि)ष्ट विशिष्टचेष्टः, श्रेष्ठी महीरमणसागरदत्तसज्ञः । श्राद्धेन भद्रकतया सह तेन सोऽगाच्चैत्येषु पौषधगृहेषु च नित्यमेव ॥२३॥ शुश्राव सोऽन्यदिवसे मुनिनायकेभ्यो, बिम्बानि कारयति यो जिनपुङ्गवानाम् । अन्यत्र जन्मनि भवोदधियानपात्रं, धर्मं जिनेन्द्रगदितं समवाप्नुयात् सः ॥२४॥ आकर्ण्य तत् सपदि सागरदत्तनामा, सौवर्णमार्हतमनन्यसमं च बिम्बम् । लग्ने समस्तगुणराशिनि कारयित्वा, द्राग्(क्) प्रत्यतिष्ठिपदथो ऋषिभिः समृद्ध्या ॥२५॥ द्रङ्गस्य तस्य बहिरम्बरलस(ग्न)शृङ्ग, तत्कारितं शिवगृहं च पुरा बभूव । तत्रोत्तरायणदिने स जगाम धर्मबुद्ध्या निजद्धिभरनिर्जितयक्षराजः ॥२६॥ प्राक्सञ्चिताः समभवत्(न्) गिरिशार्चकैर्ये, स्त्यानाज्यकुम्भनिचया बहवोऽपि तत्र ।