________________
अनुसन्धान-७१
संवबिरे धनिभिरप्युरुसत्रशालाः, सर्वत्र चाऽभवदिला रलरोलपूर्णा । विक्रीयमाणदधिभाण्डगणं व(च) रङ्का, भक्त्वाऽलिहन् गृहमृगा इव चत्वरे तम् ॥८॥ प्रायः समग्रजनता पिशिताशनाऽऽसीदनस्य दुर्लभतया सदयाऽपि चित्ते । श्राद्धा अपि व्रतिजनेऽशनदोषजातं, भिक्षागते प्रकटयन्त्यसदप्यकस्मात् ॥९॥ ग्रामेषु विश्वगपि चोद्वसतां गतेषु, निर्धूमधामसु परासुर(प)लास्थिमत्सु । मार्गाः खिलाः समभवनिखिला अपीह, रङ्गैर्वृतानि नगराणि समन्ततश्च ॥१०॥ सौराज्यशालिनममर्त्यपुरोपमेयं, गौरी-कवीन्द्र-विबुधेश्वरकोटिसेव्यम् । तस्मात् पुरादथ जगाम स लाटदेशं, वापी-तडाग-वन-देवगृह-र्षिरम्यम् ॥११॥ यत्राऽश्वबोधमकरोन् मुनिसुव्रतोऽथ, साधुद्वयी शकुनिकां प्रति मन्त्रराजम् । श्रेष्ठी स तां भृगुपुरीमगमत् तदादौ, वक्ष्यामि तच्चरितमेव समासतोऽहम् ॥१२॥ देवादिभिः परिवृतो जनतोपकारी, चन्द्रादिसाधुसहितः मुनिसुव्रतेशः । एकाश्वबोधनकृते निशि योजनानां, षष्ठिं विलछ्य भृगुकच्छपुरं किलाऽगात् ॥१३॥ कोरिण्टकाभिधबहुद्रुमराजितेऽहंस्तन्नाम्नि चारुणि वने समवासरत् सः ।