________________
ओक्टोबर-२०१६
देवान् गुरूंश्च जननीवचसा ननाम, गर्भाष्टमोऽजनि जनेक्षणपस(घ)सूर्यः ।१।। प्राणप्रिये! कुलकलङ्ककरो दरिद्री, मूर्खः सुतो व्यसननीरनिधिर्भवेद् यत् । तन्नन्दनं सुमुखि! सम्प्रति पाठयावः, स्नेहं सुते त्वमधुना च वृथा कृथा मा ॥२॥ इत्थं प्रबोध्य गृहिणी गुरुपुष्पयोगे, शृङ्गारिताङ्गमुपपाठकमात्मपुत्रम् । श्रेष्ठी यथोक्तविधिना पठनाय हर्षात्, स प्राहिणोद् धवलमङ्गलगानपूर्वम् ॥३॥ प्रज्ञाबलेन महता ह्यभियोगयोगात्, सत्पाठकाधिकतया च विशुद्धचेताः । भक्त्याऽतितोषितगुरोः सकलाः कला: स, जग्राह पुण्यवशतोऽल्पतरेऽपि काले ॥४॥ प्राग्वाटवंशगगनाङ्गणपूर्णचन्द्रः, शाली कलाभिरभितः खलु पूर्णचन्द्रः । वाचा सुधां किरति वेति स पूर्णचन्द्रः, सत्याभिधोऽजनि ततो भुवि पूर्णचन्द्रः ॥५।। प्राग्वाटवंशगगनाङ्गणमाप्तशोभं, कुर्वन् कलाभिरभितः परिपूर्णमूर्तिः । उल्लासयन् कुवलयं स्वगवीप्रचारैः, सत्याभिधा(धो)ऽजनि ततो भुवि पूर्णचन्द्रः ॥६॥ जातेऽन्यदा नगरनाय(श)कविड्वरेऽतिघोरे जनान्तकसमे गु[रु]रौरवे च । लोकस्य नित्यमभवत् सुयतेरिवौनौदर्यं तदाऽनदुरवापतयाऽल्पभोक्तुः ॥७॥