________________
ओक्टोबर-२०१६
श्रुत्वेति पत्युर्वचनं मनोजं, व्यजिज्ञपत् सा पुलकाङ्किताङ्गी । भूयादिदं देव-गुरुप्रसादात्, त्वद्भाषितं सर्वमपीश! सत्यम् ॥७३॥ आपाण्डुगण्डश्रिमुखारविन्दं, पयोधरौ श्याममुखौ नितान्तम् । नेत्रे तदानीं प्रसृतोज्ज्वले च, सालस्यमुच्चैर्वचनादिसर्वम् ॥७४|| इत्यादिभिर्लक्ष्मभिरङ्गभाग्भि-गर्भोद्भवैः सुन्दरविग्रहाऽपि । विशेषतः सा सुमुखी तदानीं, मनोहराङ्गवयवा बभूव ॥७५|| युग्मम् ॥ गर्भानुभावाच्छुभदौ«दानि, तस्या अभूवन् किल यानि यानि । अपूरयत् श्रेष्ठ्यपि वीरनागो, बुद्ध्या धनैर्मङ्घ स तानि तानि ॥७६।। यत् तस्य गर्भस्य हितं मितं च, पुष्टिप्रदं सम्मदकारकं च । आरोग्यताहेतु च यत् तदेव, चकार पाना-ऽशनकादिकं सा ॥७७|| प्राय: प्रदत्ताखिलविश्वहर्षे, हुताशना-म्भोधि-मही-न्दुवर्षे । षष्ठ्यां तपोमासि सितेतरस्यां, हस्तर्भगे चन्द्रमसीन्दुवारे ॥७८॥ वंशे प्रशस्ये रवियोग उच्च-स्थानस्थिते खेटगणेऽस्तदोषे । कुमारयोगे रविभे च वाम-जानुस्थिते चन्द्रमसो दशायाम् ॥७९॥ सिंहीव सिंहं कमलेव कामं, प्राचीव भानुं सरसीव पद्मम् । वज्रं सुनन्देव गुहं सतीव, दयेव धर्मं सुषुवे सुतं सा ॥८०॥ त्रिभिर्विशेषकम् ॥ प्रियंवदाख्या पुलकाङ्किताङ्गी, दासी तदैव प्रभुवीरनागम् । वर्धापयामास कुलप्रदीपं(प)-कुलावतंसात्मजजन्मना तम् ॥८१॥ वितीर्य वस्त्राभरणादि तस्यै, हर्षप्रकर्षादथ वीरनागः । विधापयामास धनीति पुत्र-जन्मोत्सवं लोचनकैरवेन्दुम् ॥८२।। विमोचयामास नरेन्द्रकारा-गारस्थितान् सर्वजनांस्तदानीम् । प्रदापयामास यथेप्सितं च, दानं सुधीर्दीन-वनीपकेभ्यः ।।८३॥ निर्मापयामास जिनेन्द्रहर्ये-ष्वष्टाहिष्टा(का)द्युत्सवमादरेण । सधर्मसाधर्मिकपूजनं च, विधापयामास नवं नवं सः ॥८४||
१. सं. ११४३ ।