SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २२ अनुसन्धान- ७१ मूकोऽन्यदोषग्रहणे सदा यो न धर्मशास्त्रार्थविचारणेषु । परार्थसार्थापहृतौ निरस्त - हस्तौ (तो) न जैनक्रमपुजनेषु ॥ ६१ ॥ शचीव शक्रस्य रमेव विष्णो-र्मन्दाकिनीवेन्दुविभूषणस्य । पत्न्येकपत्नी जिनदेवीनाम्नी, यस्याऽतिभक्ताऽजनि सर्वकालम् ॥६२॥ सा चेतसाऽपीन्दुमरीचिलीलं, न खण्डयामास कदाऽपि शीलम् । स्वं मण्डयामास सदाऽपि तेन यन्मण्डनं बाह्यमसारमेव ||६३|| जैनक्रमाराधनबद्धकक्षा, जीवादितत्त्वार्थविचारदक्षा । सा सम्यगाराधितजैनधर्मा, प्रायः सदावर्जितपापकर्मा ॥६४॥ साऽनेकरूपेव कुलत्रयं स्व- -मेकाऽपि कामं समकालमेव । विभूषयामास विकास [ ] -सङ्काशशीलाभरणार्चिताङ्गी ॥६५॥ तया स्वदेहे विनिवेश्य सम्यग् व्यभूषताऽलङ्करणं पवित्रे । तस्या निसर्गप्रवराङ्गयष्ट्या - स्तद् भारभूतं तु समस्तमेव ॥६६॥ नार्यां क्वचिन्मानसहर्षि रूपं, शीलं जगत्संवननं परस्याम् । अगण्यपुण्याद् द्वयमप्यनन्य- लभ्यं तदानीं तदभूच्च तस्याम् ॥६७॥ रूपेण गत्या विनयेन मत्या, शीलेन चाऽन्यैरपि चेष्टितैश्च । एकैव धुर्याऽजनि योषितां सा, सरस्वतीनामिव जाह्नवीह ॥६८॥ सा सेवमाना सह वल्लभेन, पुण्यार्जितं वैषयिकं सुखं च । बभार गर्भं जिनदेविनाम्नी, तीर्थेशपद्मप्रभकेवलाहे ॥६९॥ तस्य प्रभावाद् रजनीविरामे, सुप्ता तदा सा शयनेऽभिरामे । विलोकयामास मुखारविन्दे, निजे विशन्तं परिपूर्णमिन्दुम् ॥७०॥ गत्वा तदैव द्विरदेन्द्रगत्या, सा स्वप्नमाह स्म मुदा प्रियाय । श्रेष्ठी तदाकर्ण्य सहर्षचेताः, स्वप्नार्थवेत्ता वदति स्म जायाम् ॥७१॥ कुलप्रदीपं कुलसिन्धुचन्द्रं, कुलावतंसं कुलपस ( ) हंसम् । स्वप्नानुभावात् प्रसविष्यसे त्वं पुत्रं हि पूर्णे सति गर्भकाले ॥७२॥ १. चैत्रराकायां - इति टिप्पणी ।
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy