________________
ओक्टोबर-२०१६
२१
अनेकभावादिविकारनक्रा, वेश्यामनोवृत्तिरिव प्रकामम् । अप्राप्यमध्या विरराज यत्र, सुदुःप्रवेशा परिखा समन्तात् ॥४८॥ विकोशभावः सरसीरुहेषु, रामाजनेष्वेव सभीरुतोच्चैः । दन्तच्छदेष्वेव सदाऽधरत्वं, निस्तुं(स्त्रिं)शता खड्गलतासु यत्र ॥४९।। भङ्गस्तरङ्गेषु जलाशयानां, मदप्रकर्षश्च गजोत्तमेषु । सरस्सु नित्यं जलसंग्रहश्च, छत्रेषु दण्डश्च न यत्र पु(पुं)साम् ॥५०॥ यत्राऽन्तरिक्षोषितचारुशृङ्गा, भात्युच्छलद्वादशतूर्यनादा । कलिप्रवेशं ध्वजलोलहस्तै-निषेधयन्तीव विहारपङ्क्तिः ॥५१॥ चैत्येषु तूर्यध्वनि-काकतुण्ड-धूप-प्रदीपैरवगत्य वर्षाः । यस्मिनकाण्डेऽपि कलापिनः स्या(स्वा)न्, नृत्यन्ति विस्तार्य चिरं कलापान् ॥५२॥ सत्पात्रदानेषु जिनार्चनेषु, यत्राऽऽदरः स्वः-शिवसौख्यदेषु । प्रीतिर्नृणां कैरव-दन्तिदन्ता-वदातशीलेषु च धार्मिकेषु ॥५३॥ यस्मिन् विवेकी विनयी समुद्रः, परोपकारी सुभगः सुवृत्तः । जनः कुलीनो वसति प्रवीणैः(णो), मधूहडाख्यं नगरं तदस्ति ॥५४॥ तत्र प्रसिद्धोऽजनि वीरनागः, श्रेष्ठी समाराधितवीतरागः । विकस्वरं पद्ममिवेन्दिराया, देव्या निवासाय पवित्रपात्रम् ॥५५।। सहोदरं ज्येष्ठमिवाऽनुघलं, स धीधनः पूजयति स्म धर्मम् । अबाधया पालयति स्म सम्यग्, लघू इव प्रेमपरोऽर्थकामौ ॥५६।। स प्रार्थनामर्थिजनस्य नित्यं, प्रपूरयामास धनैर्मनीषी ।। स्मरातुराणां तु पराङ्गनानां, [न] जातुचिच्चङ्गनिजाङ्गसङ्गः ॥५७।। स्वमानसे श्रीमुनिचन्द्रसूरि-हंसं सदा धारयता च येन । न्यवारि मिथ्यात्वतमो वि(व्य)काशि, सम्यक्त्वपसं(ञ) च शिवाध्वदीपः ॥५८|| जडालयोऽब्धि: शशभृत् कलङ्की, भानुः प्रतापी कठिनः सुमेरुः । यद् गोत्रभेदी मघवा बभूव, तत् ते समाना अभवन् न यस्य ॥५९॥ योऽन्धः सदा वीक्षितुमन्यकान्ता, न वीतरागप्रतिमाश्च कान्ताः । अशक्तिमान् कर्तुमवद्यकर्म, न शर्मदं निर्मलधर्मकर्म ॥६०॥