________________
ओक्टोबर-२०१६
अहो! अनभ्यस्तसमस्तविद्याः, शश्वत् कलाशास्त्रबहिष्कृताश्च । वाञ्छन्ति काव्यानि विधातुमुच्चैः, केचिज्जनाः पश्यत साहसत्वम् ॥२४॥ अभ्यस्य शास्त्राण्यखिलानि तस्मा-दुपास्य सम्यग्(क्) कविराजमार्गम् । धर्म्य यशस्यं च सदा प्रशस्यं, कुर्वन्तु काव्यं सुधियो नवीना(न)म् ।।२५।। कवीश्वरो नैव बिभेतु जातु, परप्रदत्तासमदूषणौघात् ।। विदारयन् शार्वरमन्धकारं, नोदेति भास्वान् किमुलुकभीते: ? ॥२६।। तुष्यन्तु चाऽन्ये भुवनेऽत्र मा वा, स्वार्थं कविः केवलमीहतां तु । श्रेयः पराराधनतो न जातु, तत् स्यात् परं सत्पथदर्शनाद् यत् ॥२७॥ सौशब्द्यमिच्छन्ति हि केचन ज्ञाः, केचित् पुनः केवलमर्थजातम् । केचित् समासाधिकतां नितान्तं, पदावली व्यस्ततरां परे च ॥२८॥ भिन्नाभिसन्धित्वत इत्यभिज्ञा-स्तावत् समाराधयितुं न शक्याः । पृथग्जनोऽप्येष सदाऽनभिज्ञः, सूक्तेष्वतो दुर्ग्रह एव लोके ॥२९॥ शङ्के फणि-स्तेन-खला-ऽन्तकाद्यान्, परापकाराय ससर्ज वेधाः । निरीक्ष्यमाणाः सुखिनं जनौघं, तुदन्ति बाढं कथमन्यथाऽमी ? ॥३०॥ खलः कवीन्द्रैरुपचर्यमाणो-ऽप्यनेकधा नोज्झति वक्रिमाणम् । परोपतापप्रवणः प्रकामं, वह्निर्दहत्येव निषेव्यमाणः ॥३१॥ खलेन साधुः सुतरां विनिन्द्य-मानोऽपि कुर्यात् स्वगुणैर्हितार्थम् । दोदूय्यमानोऽपि विधुः सुधाभिः, प्रीणाति राहुं न किमुज्ज्वलाभिः ॥३२॥ मन्येऽहमेकेन दलेन धात्रा, कृताः सुधा-ऽऽदित्य-धने-न्दु-सन्तः । निरर्थकं चाऽपरथोपकारं, कुर्वन्त्यमी किं सततं जनानाम् ? ॥३३॥ कथां सदोषामपि शुद्धचेता, निरस्तदोषां सुजन: करोति । प्रोद्यच्छरत्काल इवाऽम्बुजाढ्यां, प्रणष्टपङ्कां सरसी सपङ्काम् ॥३४|| सन्तोषयन्तं सुजनं गुणौघै-र्लोकं खलः कुप्यति वीक्ष्य वीक्ष्य । विभूषयन्तं रुचिभिस्त्रियामां, विधुन्तुदः किं ग्रसते न चन्द्रम् ? ॥३५॥