________________
अनुसन्धान-७१
एभिः स्तभै(वै)विघ्नविनायका मे. निरस्यमानाः प्रलयं प्रयान्तु । प्रपीडयन्तो रजसां कलापा, जनं प्रवृद्धैर्मुदिरैरिवाऽऽशु ॥१२॥ क्व देवसूरेश्चरितं पवित्रं ?, क्व मादृशोऽनक्षरकुक्षिमुख्यः ? । सोऽहं तितीपुर्जलधि भुजाभ्यां, यास्यामि हास्यास्पदतामवश्यम् ॥१३|| श्रीवज्रसेनादिमुनीन्द्रवृन्दै-रुक्तं पुराऽपि प्रथितं यदेतत् । तत् केवलं भक्तिभरेरितोऽहं, वक्ष्ये किलाऽधीः स्व-परोपकृत्यै ॥१४।। एतच्चरितं सुकविप्रणीतं, महान् हा(ह)सो मे भविता विवक्षोः । धौरेयकोत्पाटितमप्रमाणं, भारं विवक्षोरिव तर्णकस्य ॥१५॥ दानाम्बुसिक्तावनिपीठहस्ति-राजव्रजोत्पाटितभूरिवृक्षे । वने भवेदेव गजाभकौघः, स्वच्छन्दचारी सुलभः सदाऽपि ॥१६।। पूर्वान् कवीनेव करावलम्बं, सम्प्राप्य शास्त्राम्बुधियानपात्रम् । महीयसोऽस्याऽस्मि चरित्रसिन्धोः, समुद्यतोऽहं तरणार्थमत्र ॥१७॥ त एव लोके कवयस्त एव, विचक्षणा राजसभावतंसाः । येषां कवीनां ननु भारतीयं, प्रपद्यते धर्मकथाङ्गभावम् ॥१८॥ पुण्यानुबन्धिन्यखिलाऽपि या स्यात्, सैव प्रशस्या कविता कवीनाम् । शेषा च पापाश्रवहेतुरेव, सम्यक्प्रयुक्ताऽपि भवेदवश्यम् ॥१९॥ मिथ्यादृशः केचन नव्यकाव्यं, ग्रनन्ति कर्णामृतकल्पमुच्चैः । विवेकिनां स्यात् तदधर्मकर्मा-नुबन्धकत्वान् [न] मुदे कदाऽपि ॥२०॥ आदाय केचित् कविमानिनोऽन्य-वच:सुधासागरविप्रुषोऽल्पा: । छायामिहाऽन्यां किल कल्पयन्ति, वणिग्ब्रुवौघा इव चीवरेषु ॥२१॥ केचित् प्रवीणा रचयन्ति वाणी, वर्णोज्ज्वलां चारुतरार्थशून्याम् । सा जातुषीहारलतेव याति, छायां न सन्मानसहर्षकीम् ॥२शी केचित् पुनः प्राप्य विशिष्टमर्थ-मप्यत्र तद्योग्यपदानुयोगैः । न प्रीणनाय प्रभवो बुधानां, लब्धा यथाऽलब्धधनाः पुमांसः ॥२३॥