________________
अनुसन्धान-७१
सुरसेवितपदपङ्कज!; पङ्कः- पातकमष्टप्रकारं कर्म, तस्य यो जयो-दूरीकरणं, तस्मिन् पङ्कजये, हे सुप्राज्ञ !- सुपण्डित !; शोभनो( नः)- क्षान्त्यादि गुणोपेतत्वात् मनोहरो योऽसौ धर्म:- शोभनधर्मस्तं प्ररूपयतीति शोभनधर्मप्ररूपकस्तस्य सम्बोधनं- हे शोभनधर्मप्ररूपक !, रूपं च कला च रूपकले, तयोर्योऽसौ कलो- मनोहरो(रं) गेहः(हं)- गृहः(हं) रूपकलाकलगेहः (हं), तस्य सम्बोधनं- हे रूपकलाकलगेह !; हे अमल !- हे निर्मल !, पार्श्व इति पार्श्वजिन !, मे- मम, अघं- पातकं, श्य- दूरीकुरु, हे श्यामलताग्रिमदेह ! श्यामलतायाः- प्रियङ्गलताया यानि अग्रिमानि-नवप्ररूढप्रवालाङ्कररूपाणि तानीव देहः- शरीरं यस्य स श्यामलताग्रिमदेहस्तस्य सम्बोधनं- हे श्यामलताग्रिमदेह ! ॥१॥
गतिविजितस्तम्बरम ! बेरमहाद्भुतरूप ! । जितगाम्भीर्यसमुद्र ! समुद्रनताखिलभूप ! ॥ दर्शितधर्मसमूह ! समूहरहितधृतचित्त ! । दुर्गतिपक्तेरक्षय ! रक्षय मां वृषवित्त ! ॥२॥
अवचूणि:- गतिवि० गत्या- गमनेन, विजितो- निर्जितः, स्तम्बेरमोहस्ती, येन स गतिविजितस्तम्बेरमस्तस्य सम्बोधनं- हे गतिविजितस्तम्बरम !, बेरस्य-शरीरस्य, महाद्भुतमतिप्रधानं, रूपमाकारो यस्य स बेरमहाद्भुतरूपस्तस्य सम्बोधनं- हे बेरमहाद्भुतरूप !; जितो गाम्भीर्येण- गम्भीरभावेन, समुद्रः- सागरो येन स जितगाम्भीर्यसमुद्रस्तस्य सम्बोधनं- हे जितगाम्भीर्यसमुद्र !; मुद्रया- मुक्ताशुक्तिमुद्रया सह वर्तमाना:- समुद्राः, समुद्राः नता:नम्रीभूताः, अखिला:- समस्ताः, भूपाः- पार्थिवा यस्य स समुद्रनताखिलभूपस्तस्य सम्बोधनं- हे समुद्रनताखिलभूप !, धर्माणाम् अथवा धर्मणां समूहः- क्षान्त्यादिदशविधत्वं, तद्धर्मसमूहः, दर्शित:-प्रकाशितो धर्मसमूहो येन स दर्शितधर्मसमूहस्तस्य सम्बोधनं- हे दर्शितधर्मसमूह !; सं- सम्यक्-प्रकारेण, ऊहो- विचारणं- समूहः, समूहेन रहितं, धृतं- धारितं, चित्तमन्तःकरणं येन स समूहरहितधृतचित्तस्तस्य सम्बोधनं- हे समूहरहितधृतचित्त !, न विद्यते क्षयो