________________
ओक्टोबर २०१६
यस्य स अक्षयस्तस्य सम्बोधनं हे अक्षय ! मां दुर्गतिपङ्क्तेः- नरकादिदुर्गतिश्रेणे:, रक्षय- रक्षां कुरु; हे वृषवित्त- वृषः- पुण्यं धर्मानुष्ठानं, तदेव वित्तं - धनं यस्य स वृषवित्तस्तस्य सम्बोधनं हे वृषवित्त ! ||२||
वरकल्याणकृतामर !, तामरसाद्भुतपाद ! | प्रास्तसमस्तघनाघ !, घनाघनसमनिर्ह्राद ! ॥ नामविनिर्मितशिवसुख !, वसुखसमाश्रितधर्म ! | सकलकलासुमनोहर !, नो हर गर्हितकर्म ॥३॥
७
अवचूर्णि:- वरकल्याणेति - प्रधानकल्याणानि - च्यवन - जन्म - दीक्षा - ज्ञान - निर्वाण-लक्षणानि कल्याणकानि तानि वरकल्याणानि कृतानि अमरैर्देवैर्यस्य स वरकल्याणकृतामरस्तस्य सम्बोधनं हे वरकल्याणकृतामर !; तामरसंमहोत्पलं कमलं, तद्वदद्भुतौ पादौ यस्य स तामरसाद्भुतपादस्तस्य सम्बोधनं- हे तामरसाद्भुतपाद ! प्रास्तं- दूरीकृतं, समस्तं सकलं, घनं निबिडं, अघंपातकं येन स प्रास्तसमस्तघनाघस्तस्य सम्बोधनं- हे प्रास्तसमस्तघनाघ !, घनाघनो - मेघस्तत्समो निर्ह्रादो - गम्भीरध्वनिस्वरो यस्य स घनाघनसमनिहूदस्तस्य सम्बोधनं- हे घनाघनसमनिर्ह्राद !; नाम इति कोमलामन्त्रणे, अथवा नाम्ना - नाममात्रेणैव विनिर्मितं- निष्पादितं, शिवसुखं- मोक्षसुखं येन स नामविनिर्मितशिवसुखस्तस्य सम्बोधनं हे नामविनिर्मितशिवसुख !; वसुःसंयमस्तेन खसमः- आकाशसमः, निरालम्बनत्वाद् आश्रितोऽङ्गीकृतो धर्म:स्वभावो येन स वसुखसमाश्रितधर्मस्तस्य सम्बोधनं - हे वसुखसमाश्रितधर्म !; अथवा वसुर्वीतरागस्तस्य यत् खं ज्ञानं तदर्थं समाश्रितोऽङ्गीकृतो धर्मो येन स वसुखसमाश्रितधर्मस्तस्य सम्बोधनं- हे वसुखसमाश्रितधर्म !; यत उक्तं च
वीतरागो वसुर्ज्ञेयो, जिनो वा संयतोऽथवा ।
सरागो ह्यनुवसुः प्रोक्तः, स्थविर: श्रावकोऽपि च ॥१॥ [ ]
सकलाः कलाः- सक़लकलाः, सुष्ठु - शोभनानि मनांसि - सुमनांसि, भव्यजनानां सकलकलाभिः सुमनांसि हरतीति सकलकलासुमनोहरस्तस्य सम्बोधनं- हे सकलकलासुमनोहर !; नोऽस्माकं गर्हितं कर्म - गर्हितकर्म, तं (तद्) गर्हितकर्म प्रति हर - दूरीकुरु ॥३॥