SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ मानसे निवस मे जिनहंस !, भव्यकोकनदबोधनहंस !। . जन्तुजातपरिपालनहंस !, वामकाममदभञ्जनहंस ! ॥५॥ हंसवनीपरिवर्धनकमलं, सुमतिर्यो मतिजिनपदकमलं, लभतेऽसौ शिवकमलम् । सेवकजनसम्पादितकमलं, वित्रासितदुर्गतिततिकमलं, सज्जनचातककमलम् ॥६॥ स्वान्ते स्म नाकं तव देवदाराः, कुर्वन्ति सौभाग्यगुणैर्मदाराः । प्रागल्भ्यदक्षाः कृतदेवदारा, ये या जयामासुरिमानुदाराः ॥७॥ गत्या मन्थरया सारङ्ग, कट(टि )तटगुरुभारेण सारङ्ग, तनुमध्येन सारङ्गम् । उसिरुहो युगलेन सारङ्ग, विमलाननकलया सारङ्ग, अपि च नसा सारङ्गम् ॥८॥ सारङ्गमायतविचाचलिदृग्विलासैः, सारङ्गमेव कुटिलेन भ्रुवोर्युगेन ।' सारङ्गमङ्गविलुलत्कबरीभरेण, सारङ्गधामपरिकर्मरुचा सलीलाः ॥९॥ त्रिभिर्विशेषकम् ॥ पुरतस्ते प्रगुणितसारङ्ग, तेऽक्षिक्षेपेरितसारङ्गं, परुषायितसारङ्गम् । ननृतुर्गायन्तः सारङ्गं, प्राप्याऽवसरेतरसारङ्गं, कामुकशलभसारङ्गम् ॥१०॥ भवांस्तथा नाऽपि विकारमार !, जातो हताशस्त्वयि धीरमार ! । भवाम्बुधेर्मामव वैरमार !, देवेन्द्रवन्द्याऽऽन्तरवैरमार ! ॥११॥ औषीद् यः किल भवकान्तारं, यस्तं मनुते स तु कान्तारं, भिन्ते शिवकान्तारम् । मां मेन्द्रीं यच्छतु कान्तारं, वरिवस्येशितुरतिकान्तारं, तनुते भविकान्तारम् ॥१२॥ आबाल्याद् विमलं वपुस्तव विभो ! श्वासोऽजयत्पुष्करं, धीरं वारिधरायसे प्रविकिरंस्त्वं देशनापुष्करम् । अत्रालीढमथो रथाङ्गमनघं विद्योतयत्पुष्करं, भाति त्वत्पुरतो मनो हरति ते छत्रत्रयं पुष्करम् ॥१३॥
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy