________________
अनुसन्धान-७१
प्रतिपरिचयः आ प्रतिनी झेरोक्ष नकल पूज्य गुरुभगवन्त श्रीविजयशीलचन्द्रसूरिजी म. ना संग्रहमांथी मळी छे. मूळ प्रति कया भण्डारनी छे ते जाणी शकायुं नथी. प्रतिना कुल २ पत्रो छे. अक्षरो सुवाच्य छे अने लेखन प्रायः शुद्ध छे. लेखन संवत् निर्देशायेल नथी छतां लेखनशैली जोतां १७मा सैकामां लखाई होय तेवू लागे छे. प्रतिलेखकनो कोई निर्देश नथी.
कल्याणकायमोजःश्रीकल्याणकमलाकरम् । कल्याणममलं शान्ति, कल्याणदं नवीम्यहम् ॥१॥
रासक नवमङ्गलदायकमभिरामं, केवलललनालीलारामं, नतनिहतोरुदरामं । पातकपटलं व्यरिचद् राम,
यस्तं परिहृतसङ्गमराम, शिवसङ्गतमविरामम् ॥२॥ युग्मम् अवचूरिः- अहं तं श्रीशान्ति नवीमि-स्तौमि । [यः] राम-श्याम, पातकपटलं रिरिचे-व्यरिचत्-निरकासयत्; रिचूंपी -विरेचने, विरेचनं - निःसारणं, पातकपटलस्य रामत्वं गौणम् ।
रामा स्त्री जामदग्न्यश्च, रामनाम्नौ सितासितौ । रामः पशुविशेषेऽपि, रामो दशरथात्मजः ॥ []
कल्याणकायं 'कल्याणं हेम्नि मङ्गले' इति वचनात्, तथा ओजस्तेजः, श्रीः शोभा, कल्याणं-मङ्गलं, कमला-लक्ष्मीः, ततः पदचतुष्टयस्येतरेतरे, ताः कुरुते, स तम् । तथा कल्यमाचारमणतीति, अण् शब्दे, अमलं-व्यक्तम् । तथा कल्याणदं - कलिलक्षणो य आणशब्दः, तं द्यति-स्फेटयतीति, तं, कलहनाशकं; यद्वा कल्या - दक्षाः, तेषामा-सामस्त्येन णं-ज्ञानं दत्ते; यद्वा तेषामेव
आं - लक्ष्मी, णं च दत्ते स, तम् । यद्वा कल्यानां - दक्षानामा-सामस्त्येन नं - बन्धनं कार्मणं मोहात्मकं वा द्यति तम् ॥१॥ रामं यशस्ते प्रसरीसरीति, मां वावदूकं च चरीकरीति । शंश्लाघतेऽस्मै स वरीवरीति, गुणैर्जगद् यश्च परीपरीति ॥३॥ रीतिरतास्तव के महिमानं, न पनायन्ते ज्ञायसमानं, विदलितसुरभरमानम् । हरिहरिहरिहरिराजसमानं,स्वैरं जगति सदालसमानं,कृतप्रतिघादिवमानम् ॥४॥