SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ ११५ विनयवात्सल्यप्रियंवदतादिवरगुणावर्जितसकलनिजजनमानसां भार्याममुकां सस्नेहं साञ्जसं सबहुमानं कुशलं वार्तयति । यथाकार्यं च - कुशलमत्र । तत्रत्यसमस्तमानुषाणां कुशलवार्ताऽनवरतं प्रहेया । अस्माभिरागच्छद्भिर्या शिक्षापना दत्ता तया शिक्षया भव्यगत्या गृहं पालनीयम् । गतायाता अन्यागतकुलयिका कर्मकरप्रभृतिजनो बहिरप्रसिद्धि नारोपयति तथाऽनुष्ठेयम् । अस्माभिरत्र कियन्त्यपि प्रयोजनानि कृतानि सन्ति, कियन्त्यपि कर्तव्यानि विद्यन्ते । ततोऽस्माकं विलम्बः । समस्तप्रयोजनानि साधयित्वा स्तोकवासराणि मध्ये समागच्छामि लग्नः । अत्रत्याऽवसेरी कापि न कर्तव्या । यावद् वयमागच्छामस्तावत् गृहे यथा कलापि न विनश्यति तथा कर्तव्यम् ॥१८॥ सरोषपतिः प्रस्थापयति लेखः ॥ स्वस्ति अमुकस्थानात् अमुकः अमुकस्थाने भार्याममुकीं सादरं कुशलं वार्तयति । यथा कार्यं च - कुशलमत्रास्माकम् । तत्रत्यसमस्तमानुषाणां कुशलवार्ता प्रहेया । अन्यत् - ततः स्थानात् यः कोऽपि समायाति सः सर्वोऽपि गृहसत्कां रावां करोति । यत्रापि वयं न भवामः तत्रापि...... ति । यदस्माभिर्मासा(स)द्वित्रयाणां शम्बलं मुक्तं तत् त्वयापि दिनाष्टादशनि(भि)र्भक्ष(क्षि)तं । त्वया पदे पदे वयं दग्धाः । परं तव न दोषोऽस्मदीयकर्मण एव दोषः । तथा चोक्तं - पूर्वदत्ता तु या कन्या पूर्वदत्तं तु यद्धनम् । पूर्वदत्ता तु या विद्या अग्रे धावति धावतः ॥१॥ किं बहुना ? यत्तव कुलसदृशं तत् करणीयम् ॥१९॥ सानुरागः प्रस्थापयति गुप्तप्रियतमालेखः ॥ स्वस्ति अमुकस्थानात् अमुक अमुकस्थाने निजतनुकान्तिविनिर्जितप्रत्यग्रकनकभासं किशलयकोमलचरणां पूर्णेन्दुमण्डलसमानाननां चकितहरिणीशावनयनां सुदृशं कुन्दकलिकाकारदशनां मत्तेभकुम्भोपमतद्वत्पीनस्तनां रम्भास्तम्भ
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy