SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११६ अनुसन्धान-७१ करिकरभोरुयुगलां कलकण्ठीकलरवां दृष्टिवागुराकर्षितकामिजनां दयितां अमुकीं सोत्कण्ठं सस्नेहं निर्भरं गाढमालिङ्ग्य कुशलं वार्तयति यथा - कुशलमत्रा ऽस्माकम् । तत्रत्यात्मीयशरीरारोग्यवती वार्ताऽस्मद्धतये अनवरतं प्रहेया । अन्यत् - तदा समागच्छमानैरस्माभिनिर्भरमालिङ्ग्य यत्र दिने त्वं मुत्कलापिता तद्दिने सर्वं रणरणकोपेतशून्यमानसानां क्षुत्पिपासायुक्तानां चास्माकं सन्तापैकजनका वासरा यान्ति । अन्यच्च - दससु वि दिसासु दीससि हिंडसि इच्छासु वससि मह हियए । तुममयमिह सयलजयं तुह विरहे मुद्धि! पिच्छामि ॥१॥ तद्दिनमिह किं भविता विरहानलशान्तिजलदजलवर्षम् । यत्र तवामृतपूरं वदनं द्रक्ष्यामि मृगनेत्रे! || इति परिभाव्य यथा प्रवासतस्करः प्रेमसर्वस्वमावयो पहरति तथा विधेयम् । स्तोकदिनानां मध्ये वयमागच्छामो लग्नाः ॥२०॥ कनिष्टभ्रातृलेखः ॥ स्वस्ति अमुकस्थानात् अमुक अमुकस्थाने भ्रातृ अमुकं सस्नेहं साञ्जसं गाढमालिङ्ग्य कुशलं० । कार्यं च - कुशलमत्राऽस्माकम् । तत्रत्यकुं(कु)श० यावत् वयमागच्छामः । पूर्वमानुषैः सह भव्येन भाव्यम् । गृहखे(क्षे)त्रधनादौ तपनिशु(?) करणीया । यदि महिला सूयाणि(?) राटि रटन्ति तदा सामवाक्यैर्निवारणीयानि । कस्यापि पक्षपातो न विधेयः । गृहस्वरूपं प्रतिलेख(खे?)नाऽनवरतं कथाप्यम् ॥२१॥ पूर्वोक्तपूज्येभ्यो नव्यबृहत्तरस्यापि सामान्यप्रतिपत्तिलेखः ॥ स्वस्ति अमुकस्थाने व्यावहारिकममुकं अमुकस्थानात् अमुक: साञ्जसं कुशलं वार्तयति । यथाकार्यं च - अस्माकं प्रयोजनवशात् यदि बहवो दिवसा लगन्ते ततो अस्माकं गृहे सारा करणीया । यदि मानुषाणि सीदन्ति तदाऽस्माक मुद्धार्य यत् गृह्णन्ति त(द्) दातव्यम् । वयमागताः सन्तोऽग्रेतनोद्धारस्य साम्प्रतो
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy