SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर २०१६ ददाति प्रतिगृह्णाति । अन्यत् सर्वं गुह्यस्थानं मित्रं वर्तते । तद् विना कस्य हृदयगतसमस्तसुखानि कथ्यन्ते ? तथा चोक्तं - - सो कोवि नत्थि सुयणो जस्स कहिज्र्ज्जति नि (हि) ययदुक्खानि । आवंति जंति हियए पुणोवि कंठे विलिज्जति ॥१॥ कार्यप्रयोजनमनवरतमाख्येयम् ॥१४॥ ११३ प्रसन्नभार्या भर्तुः प्रति लेखं प्रस्थापयति ॥ स्वस्ति यथास्थाने शान्तदान्तादिवरगुणोपेतान् दुःस्थाऽनाथबन्धुकुलयिका वर्गाधारान् भर्तृ अमुकपादान् अमुकस्थानात् सदाज्ञाविधायिनी अमुकी सस्नेहं सोत्कण्ठं सविनयं विज्ञपयति । यथाकार्यं च सर्वमानुषाणां कुशलमिह । स्वशरीरारोग्यवती वार्ताऽनवरतं प्रसादीकार्या । अपरं च युष्मत्प्रदर्शितमार्गानुसारेण सर्वस्यापि गतायातस्य जनस्य पोष (ष्य) वर्गस्य च चित्तमनुव्रजमानाऽनुदिनं तिष्ठामि । तथा गृहक्षेत्रधनकणादिविषये कृतसारा तप्तिकरणे अहोरात्रमपि कृतोद्यमा तिष्ठामि कस्मिन्नपि विषये अत्रत्याऽवसेरी न करणीया । अन्यत् तत्र यद्यपि स्वीयगुणैः युष्माकं सर्वः कोऽपि गौरवं करोति, अतो यूयं सुखेन तिष्ठथ । तथाप्यत्र ममाऽनिवृत्तिर्वर्तते । तथा बालापत्यानामपि युष्माकीयाऽवसेरी महती वर्तते, अतस्तत्रत्यप्रयोजनानि कृत्वा शीघ्रं समागन्तव्यम् ॥१५॥ - * संरुष्टा (ष्ट) भार्या भर्तृलेखः ॥ स्वस्ति यथास्थाने भर्तृ अमुकपादान् अमुकस्थानात् अमुकी सादरं कुशलं वार्तयति । यथाकार्यं च सर्वमानुषाणां कुशलमत्र । तत्रत्यकुशलवती - वार्ताऽनवरतं प्रहेया । अन्यत्-यतः त्वं गतः, ततः तव पाश्चात्यं गृहद्वारापत्यादिकं समस्तमपि विस्मृतम् । तव यत्रैव वर्तनं तत्रैव पत्तनम् । त्वया गच्छता व(य)त् शम्बलं मुक्तं तेन मासमेकं यावत् गृहे भवनी (तवनी) (?) संजाता । ग्रहणकानि अड्डाणकानि । हट्टे मुक्ता उद्धारपद्धारादिना अपत्य
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy