________________
११२
अनुसन्धान-७१
अमुकपादपद्मान्, अमुकस्थानात् सदादेशकारी अमुकः क्षितितलनिहितो त्तमाङ्गेन साष्टाङ्गं प्रणम्य सविनयं विज्ञपयति । यथा - विज्ञपनीयमिदम् । पूज्यैः प्रदत्तशिष्यापनया अहं व्यापारं कुर्वन् तिष्ठामि । पूज्यानां प्रतापेन झटत्येव प्रारब्धप्रयोजनानां सिद्धिर्भविष्यति । तथा चोक्तं -
शाखामृगस्य शाखायां(याः) शाखां गन्तुं पराक्रमः । यत् पुनस्तीर्यतेऽम्भोधिः प्रभावः प्राभवो हितः (हि सः) ॥१॥
अपरं च-अत्रत्यस्वरूपकथनव्याजेन पूज्यपादानाम्भोजानां (पूज्यानां पादाम्भोजानां) नमस्करणाय स्तोकदिनानां मध्ये तत्रागच्छामि लग्नः । अत्रत्या ऽनिवृत्तिः कस्मिन्नप्यर्थे न विधेया । यदि किमपि अत्र मया विनश्यति तदा पूज्यैः परीक्षा मम कृता नैव इत्यवधार्य सर्वथा ममोपरि प्रसादमादि शति(मादेश्यः?) । यथाकृत्यादेशोऽनवरतं प्रसादीकार्यः ॥छ। ॥१२॥
भृत्यलेखः ॥ स्वस्ति अमुकस्थानात् ठक्कुर अमुकः अमुकस्थाने अमुकं सप्रसादमादिशति यथा - आदेष्टव्यमिदम् । भवता तथा कथमपि व्यापारणीयं यथा पिशुनप्रवेशो न भवति । सावष्टम्भतया व्यापारणीयम् । न मन्दप्रतापेन भवितव्यम् । तत्रत्यस्वरूपं अनवरतं विज्ञाप्यम् ॥छ।। ॥१३॥
मित्रलेखः ॥ स्वस्ति यथास्थाने विद्वन्न(त्ता)दाक्ष्यौदार्यादिवरगुणगणालङ्कृतशरीरं परमप्रेमवत्सलं वयस्य अमुक अमुकस्थानात् अमुक सोत्कण्ठं सस्नेहं साञ्जसं दूरप्रसारितबाहुभ्यां गाढमालिङ्ग्य कुशलं वार्तयति । यथाकार्यं च - कुशलमत्र । तत्रत्यकुशलवार्ता प्रत्यहं प्रहेया । अन्यत् - यद्दिनपूर्वं मम त्वया सह विप्रयोगः सञ्जातः, तद्दिनावधि रणरणकः समावृतो मनसो मम । न च बुभुक्षा न च दृट(तृ?) नहि नहिद्रा(निद्रा)मु(सु)खानि वर्तन्ते । सह क्रीड(डि)तविलसितानि स्मृत्वा स्मृत्वा सखेदं मनः सम्पद्यते । इति मत्वा लेखदर्शनादेव यदि मां चित्ते धारयसि तदा प्राघूर्णकेन शीघ्रमेव समागन्तव्यम् । यदुक्तं -