SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ ॥ श्वश्रूलेखः ॥ स्वस्ति अमुकस्थाने पूज्यतमा अमुकीपादान् अमुकस्थानात् अमुकः सादरं प्रणम्य सविनयं विज्ञपयति । यथाकार्यं च - कुशलमत्र । तत्रत्यकुशलवार्ता प्रहेया । अन्यत् - युष्मदीयदुहितुः समानयनाय मया आत्मीयलघुभ्राता वेलाद्वयं वयं प्रहितः । परं केनापि कारणेन भवतीभिः स्वदुहिता न मुत्कलिता । 'मुक्तिः श्वश्रूजनादिभ्यः सञ्जाता सुखकारणम्' । अथ ‘मदीयदर्शितपराभवकारणं' तच्चानया कथयित्वा भवतीनां चित्ते खेदः समुत्पादितः, तत् यदि सत्यमेवैवत् तदपि चित्ते न किमपि धरणीयम् । संवाहयित्वा मोक्तव्या। अहं समागच्छामि लग्नः ॥छ। ॥१०॥ ॥ जामातृलेखः ॥ स्वस्ति अमुकस्थानात् यथास्थाने अमुक वरगुणगणाविःकृतशरीरं प्रियंवदं यामातृ-अमुकं सस्नेहं साञ्जसं गाढमालिङ्ग्य कुशलं वार्तयति । यथाकार्यं च - कुशलमत्राऽस्माकम् । तत्रत्याऽऽत्मीयकुशलताऽनवरतं प्रहेया । अपरं च - भवान् तावदस्माभिर्दुहितरं दत्वा पुत्रो गृहीतः । अतो भवता सर्वारम्भेण तत् कर्तव्यं यथा अस्माकं सर्वप्रयोजनेषु संवित्तिः सम्पद्यते । तत् यदि अस्मदीयपुत्रिका अज्ञानतया तीक्ष्णतया वा सन्मुखीभूय दुर्वाक्यप्रत्युत्तरदानेन समादिष्टादेशाकरणेन वा श्वश्रू-ननान्द्रादिलोकस्य वा सन्तापमुत्पादयति, तथा सर्वं सहनीयम् । अस्याः कस्मिन्नप्यर्थे पराभव(वो) नोत्पादनीयः । स(भ)व्येन सह भव्यः सर्वोऽपि भवति । उक्तं च - अपकारिणि यः साधुः स साधुः सद्भिरुच्यते । उपकारिणि यः साधुः साधुत्वे तस्य को गुणः ? ॥१॥ कार्यप्रयोजनमनवरतं कथाप्यम् ॥११॥ स्वामिलेखः ॥ स्वस्ति अमुकस्थाने दुःस्थितजनाधारान् अवगतगुणागुणतोपपादिताश्रितयथोचितचित्तवृत्तिविभागान् निजगुणगणाच्छादितराजलोकान्तपरमप्रभावान् पूज्याराध्य
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy