SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ११० अनुसन्धान- ७१ ष्वसृमातृष्वसृभगिनीप्रभृतिसमस्तपूज्यलोकस्य मदीयनमस्कारो वाच्यः । अपरं च भवतीप्रभृतितत्रत्यात्मीयलोकस्याऽहमतीवोत्कण्ठितः परमद्यापि अभिमतप्रयोजनसिद्धिर्न भवति ततो विलोबो (विलम्बो) वर्तते । सञ्जातप्रयोजनसिद्धयां कतिपयदिनानां मध्येऽहं समागच्छामि लग्नः || मातावीनती ॥७॥ ॥ माता प्रस्थापयति पुत्रलेखः ॥ स्वस्ति अमुकस्थानात् अमुका अमुकस्थाने सकलगुणगणोपेतं आयुष्मन्तं पुत्रममुकं सोत्कण्ठं सबहुमानं मूर्ध्नि समाघ्राय कुशलमाशीर्वादयति । यथाकार्यं च समस्तमानुषाणां कुशलमत्र । तत्रत्यस्वीयशरीरारोग्यकुशलवार्ताऽस्माकं सन्तोषायाऽनवरतं प्रहेया । अन्यत् - पितृव्यक- मातुलक - मातृ (ष्व) सृ-भगिनीप्रभृतिसमस्तगुरुजनैस्तवाशीर्वादः प्रस्थापितः । अपरं च तत्र दिने भवता पुनरागमनाय प्रस्थानं कृतं तद्दिनपूर्वकं अस्माकं तथा मातृष्वसृ-पितृष्वसृबृहद्भगिनीप्रभृतीनां एकवेतालिकानि वर्तन्ते । साम्प्रतं भवान् क्वापि भुङ्क्ते, कुत्रापि शेते, इत्यधीरतया अस्माकं महती अवसेरी वर्तते । स पुण्यदिनः कदा भविष्यति यत्र क्षेमकुशलेन भवान् समेष्यति ? । गोत्रदेवता - खे (क्षे ) त्रपालवलभीनाथादीनां वर्द्धापनकोपयाचितानि अनेकानि जल्पितानि सन्ति, इति मत्वा लेखदर्शनादेव शीघ्रं समागन्तव्यम् ॥८॥ - ॥ श्वसुरलेखः ॥ स्वस्ति अमुकस्थाने पूज्यतमश्वसुर अमुकपादान् अमुकस्थानात् अमुकः सादरं प्रणम्य सविनयं विज्ञपयति । यथाकार्यं च कुशलमत्र तत्रत्यकुशलवार्ता प्रहेया । अपरं च - युष्मदीयदौहितृ अमुकाय (क्या) अमुकतिथौ विवाहो भविष्यति । यदि मां चित्ते धारयथ तदा सकुटुम्बैर्भवद्भिः समागत्य मध्येभूय विवाहः करणीयः । यदि नागमिष्यथ तदाऽऽजन्मावधि भवतामुपरिरुषिष्यामि, इति मत्वा नान्यथा विधेयम् ||छ|| श्वसुरलेखः ||९|| -
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy