SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ १०९ ॥ पितृलेखः ॥ स्वस्ति श्रीअमुकस्थाने पूज्याराध्यपि[४] अमुकपादान् अमुकस्थानात् सदाज्ञानि(वि)धायी पुत्र अमुकः साष्टाङ्गं प्रणम्य सविनयं विज्ञपयति । यथाकार्यं च - सर्वमानुखा(षा)णां कुशलमत्र । तत्रत्यात्मीयकुशलवती वार्ता अनवरतं प्रसादीकार्या । अन्यच्च-पूज्यपादप्रदत्तशिष्या(क्षा)पनया गृहभारधुरं वहन् तिष्ठामि । तथा पूज्यानां गुरुतराज्ञाप्रभावतः कर्मकरादिजन: सर्वोऽपि अधिक तरमुद्यमपरो वर्तते । किं बहुना ? अत्रत्यावसेरी कस्मिन्नप्यर्थे न करणीया । पूज्यैर्विश्वस्थी(स्ती) भूय तत्रत्यसमस्तप्रयोजनानि सारयित्वा ततः समागन्तव्यम् । यत्कृत्यादेशोऽनवरतं प्रसादीकार्यः ॥छ।। ॥ पुत्रलेखः ॥ स्वस्ति अमुकस्थानात् अमुकः अमुकस्थाने सुविनयवैदग्धादिकरण न(नि). रतान्(तं) षंजनानन्दं(?) (वैदग्धादिवरगुणजनिताशेषजनानन्दं) आयुष्मन्तं पुत्र अमुकं सोत्कण्ठं सस्नेहं गाढमालिङ्ग्य कुशलं वार्त्तयति, यथाकार्यं च-कुशलमत्र । तत्रत्यसमस्तमानुषाणां कुशलता सततं प्रहेया । अपरं च-यावद्वयमा गच्छामस्तावत् समस्तगृहप्रयोजनविषये अप्रमादिना भाव्यम् । अन्यत्-निजमातुः सर्वदा भक्तिविधेया । भगिनीभागनेयीप्रभृतिकुलयकालोकस्य भोजनाच्छादनादिना अनवरतं महती सारा भविक्ति(भक्ति) [श्च] करणीया । अन्यस्यापि यद् यथायोग्यं तत् तथायोग्यं अनुष्ठेयमिति ॥छ।। ॥ मातृलेखः ॥ स्वस्ति अमुकस्थाने परममातृवात्सल्योपेतान् प्रियालापयथोचितगौरवकारणावर्जिताभ्यागतचित्तान् पूज्यभग[वती]मातृ अमुकीपादान् अमुकस्थानात् सदादेशकारी सुतअमुकः साष्टाङ्गं प्रणम्य सविनयं विज्ञपयति । यथाकार्यं चपूज्याभिः प्रदत्तआशी:प्रभावतोऽहमिह कुशलेन तिष्ठामि । तत्रत्यसमस्तमानुषाणां कुशलवार्ता च प्रतिदिनं प्रसादीकार्या । अन्यत् - पितृव्यकमातुल-बृहद्भ्रातृपितृ
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy