________________
१०८
अनुसन्धान-७१
॥ माहेश्वरिकगुरुलेखः ॥ स्वस्ति अमुकस्थाने अनवरतक्रियमाणवेदाध्ययननिर्मलीकृतमानसान् अष्टादशस्मृतिपुराणादिधर्मशास्त्राभ्यासनिरतान् गहनज्योतिःशास्त्रावगततत्त्वान् दुष्टग्रह शाकिनीभूतप्रेतमुद्गलोच्चाटनमन्त्रवादपरिस्फुरणावाप्तपरमप्रसिद्धीन् हरमुरारिप्रभृतीष्ट देवताराधनसंक्रान्तिा]न्तः करणान् पूज्याराध्य अमुकपादान्, अमुकस्थानात् सदाज्ञाविधार्या(यी) शिष्यामुक क्षत(क्षिति)तलनिह(हि)तोत्तमाङ्गेन साष्टां[गं] प्रणम्य सविनयं विज्ञपयति । यथा कार्यं च-पूज्यपादप्रदत्ताशीर्वादानुभावतः सर्वमानुषाणां कुशलमिह । तत्रत्यात्मीयकुशलतावार्ता मम सन्तोषपोषायाऽनवरतं प्रसादीकार्या । अपरंच - पूज्यपादानामतीवाऽहमुत्कण्ठितोऽस्मि । अतः स्वीयदर्शनामलजले नागत्य कलिमलाघलिप्तं मदीयमङ्गं निर्मलीकरणीयम् । तथा पर्वद्व[य]याजन द्वयप्रभृति पर्वसुकृतकल्पनाकृतव्रतोद्यापनकादिकं च समेत्य स्वीयं प्रतिग्राह्यम् । अन्यच्च - पूज्यपादानां मदीयमातृ अमुक भगिनी अमुकती सुत(?) अमुकभार्या अमुकादिसमस्तगृहलोकः सविनयमना नमस्कारं करोति । यत्कृत्यादेशोऽनवरतं प्रसादीकार्य(यः) ॥ महेश्वरजटाधरभगवन्तवीनती ॥२॥
*
॥ शिष्यलेखः ॥ स्वस्ति यथास्थानात् आचार्य अमुक अमुकस्थाने अनवरतसद्धर्मानुष्ठान-- पयःप्रक्षालितकलिमलकलङ्कं सन्न्यायमार्गकप्रवर्त(वृत्तं) वरगुणगणालङ्कृतशरीरं परमधार्मिकशिष्य अमुकं वेदचतुष्टयोक्ताभिराशीभिरभिनन्द्य साञ्जसं सबहुमानं कुशलं वार्तयति । यथा कार्यं च-कुशलमत्राऽस्माकम् । तत्रत्यात्मीयकुशल वार्ता अनवरतं प्रहेया । अपरं च-प्रतिदिनं प्रातरुत्थाय शुचिर्भूत्वा भवता स्वगुरूपदिष्टमार्गेण देवपितृतर्पणाग्निद्विजातिथीनां पूजा करणीया । तथा पितृमातृप्रभृतिवन्यजनशुश्रूषा चानवरतं विधेया । दुःस्थाऽनवस्थितभाग्ने(गिने)यदौहित्रादिपोष्यवर्गावज्ञा न कार्या । विद्वद्विप्रवदनारविन्दे निर्गच्छमान धर्मशास्त्रार्थमधुरसास्वादलालसमधुपेन भवितव्यम् । साधुभव्यजनसंसर्गो(र्गः) सर्वदा विधातव्यः । सन्न्यायोपार्जितवृत्तौ च मन: समाधेयम् । किं च बहुना ? इह परलोका हितं] यत् कर्म तदनवरतमनुष्ठेयमिति ॥छ।।