________________
ओक्टोबर-२०१६
१०७
अमुकस्थानात् सदाज्ञाभि(वि?)धायी साहु अमुकप्रभृति समस्त श्रावक तथा श्राविकाश्च द्वादशावर्त्तवन्दनेनाभिवन्द्य सविनयं विज्ञपयति । कार्यं चेदं । पूज्यानां प्रसादेन निरामयम् । तत्रत्यात्मीयनिरामयकुशलवार्ताभिः प्रत्यहमानन्दनीया वयम् । अपरं च पूज्यैरुपदिष्टमार्गे विहितदेववन्दनाप्रतिक्रमणस्वाध्यायादिधर्मानुष्ठाना तिगच्छामः(?) (ष्ठानतिरता वयं कालं गमयामः) । अन्यच्च पूज्यैः प्रसादं विधाय कलिकालकल्मषकलुषिता वयं विमलसद्धर्मलाभवारिणा सत्वरमिहागत्य प्रक्षालनीयाः । पुस्तकोपकरणादिप्रयोजनेन यत्कृत्यादेशोऽनवरतं प्रसादीकार्यः ॥छ। गुरुविज्ञप्तिका ॥१॥
*
आचार्याः प्रस्थापयन्ति श्रावकस्य लेखः ॥ स्वस्ति श्रीमहावीरजिनं नत्वा अमुकपुरात् श्रीअमुकसूरयः सपरिकरा अमुकस्थाने देवगुरुवन्दनप्रतिक्रमणस्वाध्यायादिधर्मानुष्ठाननिरतान् सन्न्यायोपार्जितार्थपरितोषा(षिता)र्थिजनान् परमश्रावक अमुक अमुकादीन् प्रभृति सकुटुम्बोपेतान् कलिकालकल्मुषमखी(षी)प्रक्षालनवारिणा सकलकल्याणकारिणा सद्धर्मलाभाशीर्वादेनानन्द्य सबहुमानमादिशन्तो वं(वयं/शन्त्येवं) । यथा कार्य चेदं-निरामया वयं सपरिकरास्तिष्ठामः । तत्रत्यस्वीयकुशलवार्तया वयमनवरतमानन्दनीयाः । अपरं च-समस्तैरपि इहपरलोकसुखसन्दोहजनकोचितधर्मानुष्ठाने प्रतिदिनं यत्नो विधेयः । यतः -
धर्मादवाप्यते सम्पत् धर्मात् सुखफलोदयः । धर्मादवाप्यते सर्गः तस्माद्धर्मं समाचरेत् ॥
साम्प्रतं कतिपयदिनानां मध्ये भवतां वन्दनाय वर्तमानयोगेन वयं तत्रागच्छामः लग्नाः ।
तत्रत्यसमस्तसुश्रावकाणां सद्धर्मलाभो वाच्यः ॥ इति गुरूणां श्रावकाय लेखः ॥२॥