SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०६ अनुसन्धान-७१ आदीदन्तौ यदि स्यातां औकारान्तौ(?) च तौ कुरु । ईकारान्तौ यदा तौ च ईकारान्तौ तदा कुरु ॥१०॥ आकारान्तौ च तौ कुर्या-देकारान्तौ सुनिश्चितम् । प्रस्थापयन्ति च यदा लेखं च बहवो जनाः ॥११॥ ते च कुर्यास्त्रिवर्णान्ता आदन्ताः सविसर्गकाः । ईकारान्तास्तु ते यान्ता ईदन्तास्तु सपिण्डिका (?) ॥१२॥ यस्य प्रस्थाप्यते लेख: कस्यापि चात्मनो लघोः । सानुस्वारं तु तन्नाम कुर्याद् वेधे(?)रनन्तकम् ॥१३॥ यदि प्रस्थाप्यते लेखो द्वयोस्तन्नाम पूर्ववत् । कुर्याद् गुरोर्बहूनां वा दीर्घपूर्वं वनान्तकम् ॥१४॥ तमगुरु स्त्रियां कार्यं (?) दीर्घान्तं सविसर्गकम् । गुरुमातृपितृष्वसृ-बृहद्भ्रातृपितृव्यकाः ॥१५|| मातुलः श्वसुरश्वश्रू-स्वामिप्रभृतयश्व ये । पूज्या त(स्त)नाम पादान्तं कुर्यात् तत्पूर्विका पुरः ॥१६॥ कार्याच(श्च) लघवो येऽन्ये पश्चात् तेषां च पूर्विका । तदुदाहृतयः का(का)श्चित् कथ्यन्तेऽतः परं यथा ॥१७॥ एकपुटे नापि दीर्घ रजोहीने त्वसंवृते । त्रिभिः काकमिते लेखे नास्ति सिद्धिः करार्पिते ॥१८॥ ॥ श्रावक गुरुलेखः ॥ स्वस्ति श्रीपार्श्वजिनमानम्य अमुकनगरे प्राणातिपातादिविरतिलक्षणपञ्चमहाव्रतपरिपालनैकमानसान् व्याकरणसाह(हि)त्यच्छन्दोऽलङ्कारप्रमाणागमचरितकथानकसिद्धान्तादिसकलशास्त्रावगततत्त्वान् विनिर्जितक्रोधादिकषायचतुष्टयारातीन् पूज्यश्री अमुकसूरिपादारविन्दान् अमुक गणि पं. अमुक गणि पं. अमुक महत्तरा श्री अमुका अमुकगणिनी प्रभृति साधुसाध्वीवृन्दोपेतान्,
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy