SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०२ अनुसन्धान-७१ प्रणमतितरां नितराम् । इहोचितं कृत्यं लिखनीयम् । वलमानं पत्रं सत्वरं प्रदातव्यम् । अग्रे मितिः दातव्या ॥ भ. श्रीजिनसुखसूरि प्रति खवास आनन्दरामस्य लेखः ॥ श्रीनाभिनन्दनो विजयतेतराम् ॥ स्वस्ति श्रीमत्सौगत(सर्वज्ञ? मतानुगतानुशासनव्याकृतिप्रवहद्गाङ्गनीरप्रतिमधीरगम्भीरवागनुरञ्जिताशेषनागरवरनैगमनिकरवृन्दारुतरचारुमूर्द्धावतंसवन्दितोदार पादारविन्दासनेषु विततन्यायविशेषवैशेषिकशास्त्रावगमोद्गतविविधजल्पबहुविध वितण्डोद्दण्डदन्तचण्डाभिघातविद्रावितप्रतिवादिवारणव्रजवादिवारणनिवारणैकपञ्चा ननेषु प्रखरतरतपोभूरिषु श्रीजिनसुखसूरिषु, प्रकृत्याभिरामाणां खवास श्रीमदा नन्दरामाणां विनयप्रणतयः सविशेषाः सन्तु । अत्र भवतां सुदृष्ट्याऽमृतवृष्ट्या परमानन्दसन्दोहपरम्परा महत्तरा वर्ततेतरां नितराम् । सैव तत्र भवतात् तत्रभवतामपि । सौहार्दविद्भिः सद्भिः श्रीमद्भिरहर्दिवमस्मासु यादृशी कृपा विधीयते प्रत्यहं तदधिका विधेया, देया च स्नेहतः प्रसादपत्री । श्रीमन्महाराजानां हार्दविद्भिः परोपकारकृद्भिर्भवद्भिरिदं कार्यद्वयमवश्यं कार्यमित्यलमतिप्रलपनेन बहुविदां पुरतः । विविधविद्याविशारदयोः श्रीश्रीपूज्या[नु] कम्पाधिगत-महोपाध्यायपदयोः श्रीऽमुकगण्योर्वन्दनं आवेदनीयम् ॥ श्रीतपागच्छीय श्रीपूज्य भट्टारक मुनिचन्द्रसूरेः पत्रं राणा श्री फतहसिंहजी प्रति ॥ स्वस्ति श्रीमत्परमेश्वरचरणारविन्दमभिनम्य श्रीसवाणागढनयरतो लिखन्ति भ. श्री श्रीविजयमुनिचन्द्रसूरयस्सपरिकराः श्रीउदयपुरगढमहादुर्गे शुभसुथाने
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy