________________
ओक्टोबर-२०१६
१०१
अचिरेणैव कालेन भवदाननदर्शनम् । यथा भवेत्तथा कार्यं मनसा प्रतिवासरम् ॥१॥ देशकालविप्रकृष्ट सख्यौ साक्षाददर्शने । तत्र मानसप्रत्यक्षे सख्ये मनःप्रमाणता ॥२॥
तथा अस्मदीयगच्छस्थमुनीनां समाचारो व्यक्तितो लेख्यश्च, तेभ्यो वन्दना दातव्या । अभिधानज्ञानस्य स्पष्टतया (ज्ञानस्याऽस्पष्टतया?) तेषां न ज्ञायतेऽस्माभिस्तद्धेतुतो नो लिखितानि नामानि ।
पंडित सच्यादासजीनै वंदना कहिज्यौ । किं घनलिखनेन ? वलत् पत्रं देयम् । मिती चैत्रवदि १॥
॥ सकलपण्डितप्रकाण्डपण्डितशिरोरत्न श्रीशान्तिविजयजित्कानां सपरिबर्हाणां बर्हम् ॥
पं. क्षमासुन्दरस्य लेखः ॥ स्वस्तिश्रीकैवल्यप्रोज्ज्वलजलजलधिगानदीष्णेभ्यः । नित्यमनुत्सिक्तेभ्यः प्रणमामि महासमुद्रेभ्यः ॥१॥ येन ज्ञानप्रदीपेन द्योतितं विश्वमन्दिरम् । तं जिनेनं नमस्कृत्य पत्रं मित्राय मुच्यते ॥२॥
अथ च श्रीमति मरोट्टकोट्टे सिन्धुजनपदघट्टे वाचनाचार्यवर्यधुर्यान् वा० श्रीअमुकाभिधानान् पं. अमुकशिष्यादिभिरन्वासितान् प्रणमन्ति श्री अमुकपुरतो पं. क्षमासुन्दरादयः । तथाऽत्र श्रीमद्विद्यमानविदेहक्षेत्रविहारिणां सीमन्धरस्वामिजिनेन्द्राणां सौम्यदृष्ट्या कुशलमस्ति । श्रीमतां शुभवतां प्रीतिपत्रं समीहाम: (महे) । भवतां पत्रं प्राक् आगतं, तदन्तर्गता उदन्ताः समवगताः, हृष्टं चेतः । यूयं बुद्धाः पूज्याः स्थः । किं घनलिखनेन ? । आवयोः प्रीतिर्दुग्धजलयोरिवास्ति, सा तु तथैव धार्या । विश्वविद्विद्वद्वरिष्टान् पं. अमुकचन्द्रान् अमुकः