________________
१००
अनुसन्धान-७१
राणाओ तपगच्छनी गादीनुं तथा गादीपति-श्रीपूज्यनुं हमेशां सन्मान करता. श्रीपूज्यजी अने राणाजी सतत सम्पर्कमा रहेतां हशे, पत्र व्यवहार सतत थतो हशे, तेवू आ पत्र परथी जणाई आवे छे. पत्रारम्भे श्रीपूज्यजीए राणाजी माटे लखेलां विशेषणो तेओना पारस्परिक सम्पर्को तथा सद्भावोनी गवाही पूरे तेवां छे. बाकीनुं तो पत्र ज बतावी दे छे.
पं. शान्तिविजयं प्रति लेखो मित्रमुनेः ॥ स्वस्तिश्रीपरमोदार-दारक्रीडापराक्रमः ।। शमी सुमीनवल्लीनः, सच्चिदब्धौ सुखाय यः ॥१॥ तं श्रीमन्तं जिनं नत्वा, श्रीमद्विक्रमद्रङ्गतः । प्रीतिपत्रं विपत्रं वै क्षमादिसुन्दरो मुनिः ॥२॥ लिखति प्रष्ठमुदय-सुन्दरो नरसुन्दरः । श्रीमति सूरतिस्थाने, मित्रमुद्दिश्य श्रेष्ठकम् ॥३॥ त्रिभिः सण्टङ्कः ॥
तत्र गुणगणगरिष्ठ कविप्रष्ठ वन्दिष्ठ प्रेष्ठ चतुर्दशविद्यागरिष्ठानां पण्डितोत्तमपण्डितश्री २१ श्रीशान्तिविजयजित्कानां पण्डितसच्छिष्ययशस्विमीठाचन्द्रादिपरिच्छदसेवितपादपद्मानां पादपद्मे नतिततिरास्तां चाऽस्माकं मुनिजनानाम् । तथाऽत्र सर्वत्र सुखमस्ति समयानुसारेण । तत्रत्यं सुखं समीहाम:(महे) ।
श्रीमतां भवतां पत्रमेकं प्राक् प्रामि(पि)तमासीत् । इतो दलं न दत्तं तत्, किञ्चिद्देहे विकारतः । साम्प्रतं स्वास्थ्यमङ्गे तु, जातं श्रीजिनदेवतः ॥१॥
तथा चाऽस्माकं यूयं पूज्याः स्थो वृद्धाः स्थः । नाऽन्तरं गण्यम् । सदाऽत्रोचितं कार्यं लेख्यम् । तथा भवद्भिः श्रीमद्भिः श्रुताभ्यासं कृतं श्रुतं चाऽस्माभिः तद् भव्यं कृतम् । पुनरप्यध्ययने श्रमो विधेयः । श्रुताध्ययनात् स्वसमयवक्तव्यतायाः स्वात्मगुणः प्रकाशो भवेदिति विधिः ।