________________
अनुसन्धान-७१
परमोपकारिणो वर्तन्ते, तत् किं भूयस्तराक्षरपलाशविन्यासायासेन ? । प्रतिक्षणं क्षणान् क्षणदश्रीमद्गुणस्मरणं चरीकरीमि ब्रह्मण इव ब्रह्मज्ञाः । तथा यथा सततं गुणगरिष्ठर्मदुपरिष्टात् कृपादृ[ष्टि]रनुष्ठीयते तथैव तृतीयज्ञानततम(तृतीय?)भेदरूपा नुष्ठेया । अपरञ्च – पत्रनेत्रासत्रानेत्रामृतपात्रानुरूपमत्रभवतां श्रीमतां पत्रमियायाऽत्र । तद् वाचंवाचं मामकीनमहीनपीनप्रेमवन्मानसं परमहर्षोत्कर्षमगमद्, अगमत् प्रभूताहस्समुद्भूतासातजातं, जातं च धन्यतममहः । तथाऽस्मदुचितकार्यलिखने नाऽन्तरता गण्या पुण्याशयैः । सकलमुनिवर्गो मन्नाम्ना नन्तव्यो यथायोग्यं इति । तथाऽतः श्रीमतां पत्रं पूर्वमपि प्रहितमासीत्, परं तदध्वगेनाऽध्वन्येव गमितं, तेन भूयो लिखितमद इति ज्ञेयम् ॥
* * *