________________
ओक्टोबर-२०१६
दोर्दण्डकुण्डलितकोदण्डमुक्तकाण्डखण्डनैकपण्डितान् डिण्डीरपिण्डपाण्डुरयश:पुण्डरीकखण्डमण्डितब्रह्माण्डभाण्डभाण्डमण्डपान् ।
श्रीभट्टारकविशेषणानि -
अमेयगुणरत्नरोहणाचलान् चारुचारित्रपात्रान् रञ्जितानेकनागरिकजनान् सप्त दशसंयमभेदप्रकरणगुणरोहणाचलान् कलिदिका(?कालिन्दिका?)कमलिनीसमुल्लासनसहस्रकरान् निजविशदयशोराशिप्रसरा(र) पराजितनिशाकरान् प्रगुणगुणमणि धोरणीबन्धुतानुकृतरत्नाकरान् सकललक्षणतर्कसाहित्यछन्दोऽलङ्कृत(ति)प्रमुखाने कशास्त्रप्रयोगहीरकनिकरवज्राकरान् स्ववचनमधुरिमप्रगुणगुणावगणितशर्करान् अक लकलिकालविकरालाहंकार(रा)धिकारशङ्करान् निजवचनरचनाचतुरिमाचरण बोधितानेकभव्यलोकप्रकरान् सकलसेवकजनमनोरथसिद्धिकरान् परमेश्वरशासनविकाशनभोमणीन् सकलसुविहितचूडामणीन् पूज्याराध्य: धे(ध्ये)य: सुगृहीतनाम धेय: त्रिभुवनाद्भुतभागधेयः तान् अनन्यजन्य(न)सौजन्यवर्यधी(धै)ौदार्यसत्य शीलसन्तोषाद्यनेकप्रगुणगुणमणिरोहणभूधरान् ।।
अथ साध्वी(?) -
स्वस्ति श्रीस्फाराङ्गुलीमञ्जुलदलमालि[ङ्ग]नमाश्रितामितांशुमदुद्धरणाखिललोकविसृत्वरविमलयशःसौरभ्यावर्जितसकलाखण्डलप्रमुखलखि(लेख)शिलीमुखमुखरितसनिकर्षस्थलमनन्तचतुष्टयीविशिष्टपरमेष्टिजिनचलनकमलयुगलमलममलान्तष्क(न्तःक)रणेन शरणीकृत्य श्रीअमुकपुरे ज्ञानादिगुणाविरलोज्ज्वलमुक्ताफलप्रवालजालधवलितोपकण्ठदिग्मण्डलैकादिसममध्यानन्तपर्यन्तनयभङ्गरचनातरङ्ग सङ्गोत्तरङ्गितानन्तनयसरित्प्रपातजातप्रवृद्धिमद्विशेषचतुर्दशनयरत्नालङ्कृतषण्मतानल्पजल्पोच्छलल्लोलकल्लोलकल्लोलिताप्राप्यतलागमजलधिनिस्तरणतरणिप्रतिमप्रतिभाप्राग्भारविनिर्जितोन्मदवादिसन्दोहासादितविजयगणा: अमुकजिद्गणिगणिगणचणाः जैवातृकअमुकोपासितचरणाः श्रीअमुकविहितनिलयेन समुद्भूतामेयप्रणतेन सविनयं अमुक(के?)ना(न?) स्वीयान्तष्करणवयुदन्तजाताविष्करणप्रवणपर्णमप्रमाय विकर्तनप्रमितावर्तप्रणामैः प्रणम्यन्ते । श्रीमदर्हतोऽनुग्रहदृष्टिवृष्टिवर्षणादुभयत्रातपत्रासनादासादयतुतरां स्फारविस्तारं कुशलव्रततिततिरिति प्रतिघस्रं प्रकाम्यते प्रकामम् । तथा च श्रीमन्तः पूज्याः पुरुहूतपुरोहितोद्धतकवित्वगर्वापहारिणो नः