SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७० हर्षितास्यं हेमभूषा हयहेषा हरिप्रिया ।। हर्म्यवासो हविस्या( घ्या )न्नं हषटकं सज्जनाश्रयम् ॥६५॥ हताशता हानि होस्यं हीनवंश हठक्रिया । हीलाषटकमिदं हस्य प्राप्यते पुण्यवर्जितम् ॥६६॥ ह ३२ ॥ प्रसन्नवदनता । स्वर्णाभरणधारिता । द्वारै हयहेषारवः । लक्ष्मीवत्ता । धवलगृहे निवास: । हविष्यानभोज्यम् ॥६५॥ इष्टार्थाऽप्राप्तिः । सर्वपदार्थहानिः । निःप्रयोजनहास्यम् । अधमान्वयोत्पत्तिः । सर्वत्र हठकर्म । सर्वत्राऽवगणना ॥६॥ क्षमित्वं च क्षमावत्त्वं क्षीरभोज्यं क्षुदल्पता । क्षुद्रावासः क्षौमवासः क्षस्य षट्कं महात्मनाम् ॥६७॥ क्षीबत्वं क्षामता क्षण्यं क्षोभः क्षाराश्रयः क्षयः । सम्पनीपद्यते षट्क-मिदं क्षस्य दुरात्मनाम् ॥६८॥ क्षः ३३ ॥ समर्थत्वम् । क्रोधंजयित्वम् । परमान्नाहारिता । स्तोकक्षुधात्वम् । चेतस्यकुटिलता । उत्तमवस्त्रधारित्वम् ॥६७॥ उन्मत्तता । दुर्बलता । क्षीणपणुं । कलहाश्रय: । क्षयरोगः ॥६८॥ इति सप्तवर्गसर्वाक्षरोत्थषट्षड्वरेण्यरेफरवैः । लक्ष्मीकल्लोलबुधो निर्मितवान् सूक्तसङ्ग्रहं शुद्धम् ॥६९॥ इति सप्तवर्गाक्षरवरेण्यावमशब्दग्रथितः सूक्तसङ्ग्रहः ।। इत्यमुना प्रकारेण सप्तवर्ग-ङवर्जसर्ववर्णोत्पन्नषट्पट्उत्तमाधमशब्दैः सूक्तसङ्ग्रहं कृतवान् ॥६९|| सूक्तसङ्ग्रहपर्यायावचूणिः ॥
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy