SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५० अनुसन्धान-७० सर्वैः सह मैत्रीभावः । महानुभावता । अल्पजल्पाकत्वम् । निर्लोभता ॥४९॥ मलिनत्वम् । आलस्यम् । उद्धतत्वम् । वाचालता ॥५०॥ याथातथ्यं यशस्वित्वं योद्धत्वं च यदृच्छता । यूनत्वं युक्तवादित्वं षड् यकारी नरोत्तमः ॥५१॥ यद्भविष्यो यथाजातो याचको यद्वदः पुनः । । यातयामो यक्ष्मरोगी षड् यकारी नराधमः ॥५२॥ य २५ ॥ सत्यवादिता । यशस्विता । स्वेच्छौचारिता । तरुणत्वम् । युक्त वचोवादिता ॥५१॥ दैवपरः । जडः । यत्तदसभ्यं वदतीति यद्वदः । जराजीर्ण । क्षयरोगी ॥५२॥ रोगमुक्तो रूपयुक्तो रतिरङ्ग रसाकरः । रम्यरावो रमावासो रषट्कः पुण्यपीवरः ॥५३॥ रागद्वेषी रिपुत्रासी रीणो रेफमतिश्रितः । रूपहीनो रमाक्षीणो रषट्कः पापधीवरः ॥५४॥ र २६ ॥ नीरोगः । सुरूपः । रतै रङ्गो यस्य सः । हर्षाकरः । मधुरभाषी ॥५३॥ रिपु थिकु त्रासइ । विषादी । अधमां मतिमाश्रितः । क्षीणधनः ॥५४|| लालित्यं लोकसांमत्यं लक्ष्मी लज्जाश्रितं लयः । दयायां ललनालीला लषट्कं लभ्यमुत्तमैः ॥५५॥ लुब्धत्वं लुब्धकत्वं च लाम्पट्यं लघुता तथा । लक्षणाभाव लासर्यं लषट्कमघशालिनाम् ॥५६॥ ल २७ ॥ सौकुमार्यम् । लोकोभीष्टत्वम् । लक्ष्मी । लज्जाश्रितं यथा स्यात्तथा । दयायां लयः । ललनाया लीला ॥५५॥ लोभित्वम् । आखेटिकत्वम् । अंगौरवार्हता । निर्लक्षणता । लोसरीयापणुं ॥५६॥ . विद्वत्ता व्याधिहीनत्वं वीर्यसम्पद् विभूतयः । व्रीडायुतं विनिद्रत्वं षड् वकाराः शुभात्मनाम् ॥५७॥
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy