________________
७
जुलाई-२०१६
फल्गुत्वं स्फुरदोष्ठत्वं फटाटोपश्च फिक्कता ।। फेत्कारिता फूत्कृतिश्च फकाराः षड् दुरात्मनाम् ॥४४॥ फ २१ ॥
उदारस्फारता । स्फुटवक्ता । अवञ्चकः । शोर्भावत्ता । प्रसिद्धान्वयत्वम्, शुद्धान्वयत्वात् । दृष्टे सति फलप्राप्ति: । दीप्यत्तेजाः ॥४३॥ असारता । अधरचालनम् । भयङ्करता । फीका पड्यापणुं । फैत्कार्यापणुं । सर्वदा निःश्वासोच्छ्वासमोचनम् ॥४४॥ ...
बुद्धिर्बन्धुरता बौध्यं बेरेरूपं बलिष्ठता । बहुप्रदत्वं षडमी, बकारा बहुपुण्यतः ॥४५॥ बीभत्सता बालिशत्वं बुद्धिवैकल्य बन्दिता ।
बोक्कसत्वं बुद्रुटत्वं बकाराः षड् दुरात्मनि ॥४६॥ ब २२ ॥ . मनोज्ञता । बुधस्य भावो बोध्यम्- पाण्डित्यम् । सुरूपदेहत्वम् । बलवत्ता । अमोघदातृत्वम् ॥४५॥ कुहिँतत्वम् । मूर्खत्वम् । मतिभ्रंशता । परदासत्वम् । मातृपित्रोविरुद्धजातित्वम् ॥४६॥
भारक्षमत्वं भर्तृत्वं भद्रकत्वं च भव्यता । भूतिमत्त्व भाममुक्ति-र्भकाराः षड् विभूतये ॥४७॥ भीमत्वं भारवाहत्वं भ्रष्टत्वं भूतिवर्जितम् । भाग्यहानिर्भयभ्रान्तिः षड् भकाराः सुखाय न ॥४८॥ भ २३ ॥ भारेखमीपणुं । पोषकत्वम् । मुग्धपरिणामता । उत्तमत्वम् । ऋद्धिमत्वम् । अक्रोधता ॥४७॥ भयङ्करत्वम् । भारवाहिता । सदाचाररहितत्वम् । दरिद्रत्वम् । निर्भाग्यता । सदी सभयत्वम् ॥४८॥
मर्मज्ञत्वं च मैत्रीत्वं मेधावित्वं महात्मता । मितभाषित्वमुक्तित्वे मकाराः षण्नरोत्तमे ॥४९॥ मलीमसत्वं मन्दत्वं मदोन्मत्तत्वमूर्खता । मौखर्यं मद्यपायित्वं मकाराः षण्नराधमे ॥५०॥ म २४ ॥