________________
जुलाई-२०१६
N
१२.
+
जीवरक्षा जनश्लाघा जिनपूजा जितात्मता । जल्पशक्तिर्जयावाप्ति-र्जकाराः षट् सतां नृणाम् ॥१५॥ जाड्यं जापवादश्च जारता जातिहीनता । जिह्यता जन्तुंघातित्वं जकाराः षण्नराधमे ॥१६॥ ज ७ ॥
लोकप्रशंसा । जितेन्द्रियत्वम् । वाक्पटुता । सर्वत्र जयप्राप्तिः ॥१५॥ जडता । लोके अपकीर्तिः । अवेत्तृत्वम् । हिंसकत्वम् ॥१६॥
झात्कारश्च झलत्कारा( र )झमत्कारौ च झुमणुं । झबज्झबश्च झीरा च झस्य षट्कं शुभं नृणाम् ॥१७॥ झुझितो झूरितो झीर्णो झपाटी च झलायुतः । संझुंझमुसय: पापी झषट्कोऽनर्हगौरवः ॥१८॥ झ ८ ॥ . झात्कारो विद्युदिव । झलत्कारः स्वर्णमिव । झमत्कारो झांझराणाम् । झुं० ग्रीवाभरणम् । झबज्झबत्, झबझबटो दर्पणवत् । झीरा देश्यः, लज्जासर्वोऽपि जनो लज्जामानयति । इह झकारस्य षट्कं नृणां शुभमाङ्गल्यकारि ॥१७|| झुं०मुषितः । झू० कुटिलीभूतः । झीर्णः जराजर्जरीभूतः । झषाटि कर्ता । झला मृगतृष्णा । सझुंझुमु० मनोदुःखसहितः । एवंरूपझषट्कः पापवान् गौरवायाऽयोग्य: ॥१८॥
ात्यग्रिमो ज्ञानवांश्च जोक्ति ज्ञप्ति जसंस्तवः । ज्ञानभक्तो ज्ञषट्केना-श्रित एव नराग्रणीः ॥१९॥ ज्ञान-ज्ञप्ति-ज्ञताभ्रष्टो, जसङ्गतिविवर्जितः । ज्ञान्यभक्तो ज्ञषट्केना-श्रित एवं नराग्रणीम् ॥२०॥ ञ ९ ॥
ज्ञातिश्रेष्ठः । ज्ञोक्तेः पण्डितवाक्यस्य । तथा बुद्धस्तथा पण्डितस्य परिचयो यस्य सः ॥१९॥ ज्ञान-बुद्धि-पाण्डित्यभ्रष्टः । पण्डितसङ्गतिरहितः । पण्डितद्वेषी ॥२०॥
+ झुमुझुमुसय - मननुं दुःख ( देशीकोश)।