________________
जुलाई-२०१६
अहं प्रणम्य विज्ञानं विनोदाय मयाऽनया । सदसद्व्यक्तियुक्त्या च क्रियते सूक्तसङ्ग्रहः ॥१॥ कवर्णादिक्षपर्यन्त-रीत्या षट् षट् स्वनश्रिया । सदसज्जनोपदेष्टुं पूर्वाचार्यैरकृतपूर्वः ॥२॥
तु नमः ॥ अस्य सूक्तसङ्ग्रहस्य यथाजातजनावबोधाय संस्कृतासंस्कृतपर्यायार्थरूपाऽवचूर्णिलिख्यते । यथा-जिनं नत्वा पण्डितानां विनोदहेतवे मयाऽनया सदसद्व्यक्तियुक्त्या उत्तमाधमलक्षणशब्दविशेषयुक्त्या च पुनः षट् षट् शब्दशोभया काक्षरादिक्षपर्यन्तरीत्या प्रकारेण सज्जनदुर्जनोपदेशायोपादेयहेयार्थं पूर्वाचार्यः पूर्वम् अकृत एवंविधः सूक्तसङ्ग्रहः क्रियते इत्यार्यायुग्मार्थः ॥१-२॥
कृतज्ञः कार्यकर्ता च काम्यरूपश्च कोमलः । कोविदः कमलावासः कषट्कोऽयं नृषूत्तमः ॥३॥ कृपणः कूटधीः कृष्णः कुटिलः कटुवाक् कुणिः । कषट्कं पुण्यहीनाना-मिदं सम्पद्यते नृणाम् ॥४॥ क १ ॥
परकृतगुणं जानातीति कृतज्ञः । परेषां कार्यकर्ता परोपकारित्वात् । मनोज्ञरूप: । अकठिनपरिणामः । रैमानिवासः ॥३॥ टुंटत्वं ॥४॥ कठिनरवारिवैयग्ग्रं(?) । इयता हेयारोहणशूरता सूचिता ॥
खलीनखड्गव्यग्रत्वं खल्वाटत्वं खरांशुता । खेदन खलंघातित्वं षट् खकारा नरोत्तमे ॥५॥ खेला खस-खरत्वं च, खजू-खर्वत्व-खोरता । खकाराः षडमी लोके गर्हिता नरि गर्हिते ॥६॥ ख ॥
खल्वाटो निर्धनः क्वचित् । सूर्यवत् तेजस्त्वम् । खेदो दुःखं तद्धन्तीति खेदघ्नः । सज्जनपालकः ॥५॥ कूर्दनम् । पामा रुक् । कर्कशत्वम् । कण्डू । वामनता । खोडत्वम् ॥६॥