________________
जुलाई-२०१६
३७
पुण्डस्थजर्जान्( त् )स्मरपुण्डरीक ! पुण्डस्थबर्बाद् गतपुण्डरीक ! । पुण्डाप्तबर्बाधितपुण्डरीक ! भर्भादपुण्डाज्जय पुण्डरीक ! ॥१७॥
(६१) स्मरजर्जरीक ! जर्ज०-वृद्ध । (६२) बर्बरीकः केशः । (६३) हितः-त्यक्तः बर्बरीक:-शाकभेदो येन, तस्याऽऽमन्त्रणम् । (६४) हे भर्भरीक ! कोषे भर्भरी लक्ष्मीः, तया उदारः, क-शब्देन उदारः । .
वरावभासोत्तरपुण्डरीकद्वीपं तदाघ( द्या )ऽम्बुधिपुण्डरीक !। सङ्ख्यातिगं श्लिष्यसि पुण्डरीक
लेण्याद् (लेशाद्? ) गुणैर्वर्णितपुण्डरीक ॥१८॥ युग्मम् ॥ - (६५) पुण्डरीकः वरावभासद्वीपः, तं पुण्डरीकवरावभासद्वीपस्तम् (द्वीपम्) । (६६) पुण्डरीकवरावभाससमुद्रम् । उभयत्र-'सङ्ख्यातिगम्' इति सम्बध्यते । तयोवि(वि)शेषः ।
विपुण्डरीकल्पविमुक्तचित्त, सम्पुण्डरीकल्पविविक्तचित्त ! । आपुण्डरीकल्प ! चरित्रलक्ष्याक्ष्मापुण्डरीकल्पतरूपमान ! ॥१९॥ दुःपुण्डरीकपवियोगतस्त्वामुत्पुण्डरीकस्तव सेवने यः । सत्पुण्डरीकः श्रयतोऽत्रिवर्णी सुपुण्डरीकर्मजनेऽस्यजाने ॥२०॥ पुण्डरीकयुग्मम्
(६७) उत्सुकः । अत्र काव्ययुग्मे-'पुण्डरीकशब्दाद्' अक्षरत्रयं वर्जयित्वाऽर्थसङ्गतिः ।