________________
२२
अनुसन्धान- ७०
सं० १२११ वर्षे महाराज श्रीकुमारपालदेवनियुक्तव्ययकरणेन श्री श्रीमालज्ञातीयसङ्घपतिश्रीराणिगेन श्रीमदणहिल्लपत्तने श्रीकुमारविहारजगत्यां पूर्वामुखोऽष्टापदस्तथा सं० १२२२ वर्षेऽत्र महातीर्थेऽपवरकत्रयपट्टशालाद्वयालङ्कृतः पश्चिमामुखो मठस्तथा सं० १२२४ वर्षेऽत्र श्रीनेमिचैत्ये रङ्गमण्डपस्तथा गूढमण्डपनैर्ऋत्यकोणे स्वस्य पत्नी महं० श्रीरूपिण्याश्च मूर्त्तियुग्मं चेति धर्मस्थानानि, बहूनि चान्यानि श्रेयांसि कारितानि ॥ तथा सं० १२२२ वर्षे श्रीकुमारपालदेवदत्तसुराष्ट्रादण्डाधिपत्येन महं० श्रीराणिगसुत दण्ड० श्रीआम्बाकेन अत्र तीर्थे पश्चिमदिशि नूतनपद्या कारिता । तथा श्रीनेमिचैत्ये बलानकं तदग्रत: पूर्वजस्तम्भान् पितृमूर्त्तिसमीपे स्वमूर्त्तिश्च । तथा गिरिनगरपूर्वद्वारे आम्बावापी | तथा राजप्रसादाप्तसहुआलापुरपार्श्वस्थ-आम्बासणग्रामे श्रीनेमिचैत्यम् । तथा श्रीकुमारपालदेवनियुक्तमालवदेशदण्डाधिपत्यस्थेन बहूनि धर्मस्थानानि कारितानि । तथा अत्र श्रीनेमिपूजार्थं श्रीमङ्गलपुरें आवाससहिता आम्बाकोटडी काराप्य प्रदत्ता । तथा सं० १२२३ वर्षे दण्ड० श्रीआम्बालघुभ्रात्रा लाटदेशदण्डनाथेन दण्ड० श्रीधवलेन नव्यपद्यामध्ये धवलप्रपा कारिता । तथा दण्ड० श्रीधउलूलघुभ्रात्रा नागसारिकादण्डनाथेन् दण्ड० श्रीयशोराजेन धवलप्रपायाः पश्चात् गिरितटे कुण्डिका, तथा बहुषु स्थानेषु जिनबिम्बानि कारितानि । तथा सं० १३२८ वर्षे दण्ड० आम्बा. दण्ड० श्रीराइमइसुतराणश्रीपेथाकतद्भार्या राज्ञी सुहागदेवीनन्दनराणश्रीजगसीह तत्पत्नी राज्ञीजासलदेवीतनुज महं० श्रीछाडा तद्गेहिनी महं० श्रीचाहिणिदेवीनन्दनेन महं० श्रीआशाधरानुजेन महं० श्रीतिहुणसीह ज्येष्ठेन महं० श्रीसोमसीहेन अत्र तीर्थे पित्रोः श्रेयसे श्रीनेमिबिम्बालङ्कृता सेयं देवकुलिका । तथा श्रीनेमिरङ्गमण्डपे पूर्वजस्तम्भद्वयम् । तथा श्रीअणहिल्ल पत्तनाष्टापदे मण्डपस्तथा पौरावेलाकूले प्रपा चेति धर्मस्थानानि कारितानि । सं० १३२८ श्रीबृहद्गच्छीय श्रीविजयसिंहसूरिभिः सेयं प्रशस्तिः कृता ।
ပြော