________________
अनुसन्धान-७०
उदारमण्डपां देव-कुलिकामयमातनोत् । युगन्धरं च बाहुं च, स( सु)बाहुं च जिनाधिपम् ।।२३।। युग्मम् भावडाचार्यगच्छीयः, समुद्दधेऽमुना तथा । जिनत्रयाख्यः प्रासादः, श्रीमत्पार्श्वजिनेश( शि)तुः ॥२४|| श्रीकुमारविहारेऽसा-वकार्षीन्मूलनायकम् । तदाये हट्टिकां चैकां, तन्दुलेच्छामपि व्यधात् ॥२५॥ पौत्रप्रतापसिंहस्य, तद्भातुश्च कनीयसः । श्रेयसे किञ्च तत्रार्हत्-खत्तके द्वे चकार सः ||२६|| आसराजविहारस्य, प्रासादमृषभप्रभोः । कुमारदेवीवीहार-नामधेयं च नेमिनः ॥२७|| एकस्थण्डिलबन्धेनो-भयं तत्कतसंश्रयम् । एकनिर्गमनद्वारं, द्विप्रवेश(शं) बलानकम् ॥२८॥ अष्टमण्डपमुद्दण्ड-.
[अतः परं पत्रं नाऽस्ति ]
................
।
......... न महनीयाः ॥४४॥ तेषां जयत्यचरमश्चिरमर्थिसार्थं, सन्तोषयन् नयधिया सुधियां धुरीणः । आशाधरः सुचरितैकनिधानगौर-देवीपतिर्भुवनलङ्घनकीर्तिपूर्तिः ॥४५॥ तस्याऽनुज: सुजनमानसवासहंसः, क्षोणीन्दुसंसदवतंसकृतप्रशंसः । श्रीसोमसिंह इति दिक्कुलकूलभित्ति-श्रीखण्डलेपमयकीर्तिचयश्चकास्ति ॥४६।। यस्य विधोरिव रजनी, जयतलदेवीति जयति जाया च । बुध इव चार्जुननामा-ऽऽल्हणदेवीवरयिता सूनुः ॥४७।। अणहिल्लपत्तने यः, श्रीराणिगसचिवराजरचितस्य । अष्टापदस्य मण्डप-मखण्डकुलमण्डनश्चक्रे |४८।।