________________
जुलाई-२०१६
तथा शत्रुञ्जयाख्ये च, सदने प्रथमार्हतः । श्रीनेमि-पार्श्वजिनयोः, स देवकुलिके व्यधात् ॥११॥ प्राग्वाटवंशोद्भवकृष्णदेव-राणूतनूसम्भवयोः सपत्न्योः । श्रेयोभिवृद्धयै मथुराभिधाने, जिनालये सत्यपुराभिधे च ॥१२॥ बलानकं च त्रिकमण्डपौ च, पुरः प्रतोली परितो वरण्डम् । मठं तथाऽट्टद्वयमट्टषटकं, क्रमेण मन्त्री रचयाञ्चकार ।।१३।। युग्मम् क्षपणार्हद्वसहिका-मेकामेकां च तत्प्रिया । तथोद्दधार ललिता-देवीकान्तः स कान्तधीः ॥१४॥ तथाऽसौ वीरनाथस्य, रथशालामकारयत् । मठमट्टद्वयं चैत-दायदानाय निर्ममे ॥१५॥ गुहायामिव पूर्वाद्रे-श्चन्द्रं विश्वतमोपहम् । तत्रैव रथशालायां, नेमिनाथमकारयत् ॥१६।। इतश्च पल्लीवालाख्य-वंशे शोभनदेवभूः । अभूदजयसिंहाख्यो, भण्डशाली महामनाः ॥१७|| सङ्ग्रामसिंहसं(ग्रा)म-व्यसनोपशमाय सः । स्वमौलिं वस्तुपालार्थे, ढुण्ढदेवबलिं व्यधात् ।।१८।। तन्मूर्ति(ति?) रोघडीचैत्ये, कृतज्ञोऽयमकारयत् । तच्छ्रेयसे च जैनेन्द्र, बिम्बमेकमतिष्ठिपत् ॥१९।। रोघडीचैत्यदेवेन्दो-रादिनाथजिनेशितुः । शाकमण्डपिकामाय-दाने कल्पयति स्म सः ।।२०।। तथा ब्रह्माणगच्छीय-नेमिनाथजिनालये । जिनेन्दोरादिनाथस्य, स देवकुलिकां व्यधात् ॥२१॥ तथा सण्डेरगच्छीय-मल्लिनाथजिनालये प्रियासौख्यलताश्रेयः-कृते सीमन्धरप्रभोः ॥२२॥