________________
१८
अनुसन्धान-७०
मन्त्री मसूयडग्राम-गम्भीराग्रामचैत्ययोः । वस्तुपालस्तु नाभेय-वामेयौ न्यस्तवान् जिनौ ॥४|| स्वस्यैष ललितादेव्या, अपि पुण्याभिवृद्धये । जयादित्यं नगरके, रत्नादेवीमकारयत् ॥५॥
॥ इति पेटलापदाधिकारोऽष्टमः ॥ . . स्तम्भतीर्थपुरे वस्तु-पालो मन्त्रिपुरन्दरः । कीर्तने शालिगस्योच्च-रुद्दधे गूढमण्डपम् ॥१॥ तत्र गर्भगृहद्वार-श्रियो लीलासरोरुहम् । स्वस्याऽप्यवरजस्याऽपि, स तेने मूर्तिखत्तकम् ॥२॥ गुर्जरान्वयिनो लक्ष्मी-धरस्य सुकृताय सः । तस्यैव परिधावष्टा-पदोद्धारमकारयत् ॥३॥ पुण्यायाऽम्बडदेवस्य, वैरिसिंहाभिधस्य च । तत्पक्षचैत्ययोः सोऽर्हद्-बिम्बे पृथगतिष्ठिपत् ॥४॥ तथोसिवालगच्छीय-पार्श्वनाथजिनालये । स्वस्याऽपि स्वाङ्गजस्याऽपि, मूर्ती कारयति स्म सः ॥५॥ श्रेयांसमात्माग्रजपुण्यहेतोः, स्वपुण्यहेतोश्च युगादिदेवम् । स्वकान्तयोः पुण्यकृते च नाभि-सिद्धार्थजावेष जिनावकार्षीत् ॥६।। सैष मोक्षपुरद्वार-तोरणस्तम्भसन्निभौ । तद्गूढमण्डपे कायो-त्सर्गिणौ विदधे जिनौ ।।७।। थारापद्रकगच्छीय-शान्तिनाथजिनालये । बलानकं त्रिकं गूढ-मण्डपं प्रोद्दधार सः ॥८॥ तत्रैव केलिकाख्यायाः, पुण्यहेतोः पितृष्वसुः । पितृव्यस्यैष तिहुण-पालस्य सुकृताय च ॥९॥ स्वश्रेयसे च क्रमतः, शम्भवं नाभिनन्दनम् । शारदां पट्टशालायां, कारितायामतिष्ठिपत् ॥१०॥ युग्मम्