SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ जुलाई-२०१६ १७ पश्चिमोत्तरयोर्वैद्य-शाल(ली)यद्वारयोरयम् । प्रशस्ती न्यस्तवानात्म-कीर्ति-मङ्गलपाठके ॥४॥ उत्तरद्वारपुरतो, वैद्यनाथस्य वेश्मनः । असूत्रयदसौ तुझं, तोरणं विशदाश्मभिः ॥५॥ वृषमण्डपिकां द्विभूमिकां, विशदैरश्मभिरस्य बान्धवः । इह काञ्चनकुम्भशोभिनी, पुरतो वैद्यपतेः प्रतेनिवान् ॥६॥ तथाऽसौ निजनाथस्य, कालक्षेत्र(त्रं?) तदाख्यया । रिवोरि(?)सङ्गमे वीरे-श्वरदेवकुलं व्यधात् ।।७।। ॥ इति दर्भावत्यधिकारः षष्ठः ॥ स्तम्भनके च शलाका-मुद्दधे पार्श्वनाथभवनस्य । दण्डकलशौ च काञ्चन-मयौ व्यधाद्वस्तुपालोऽत्र ॥१॥ नाभेय-शैवेयजिनेशखत्तके, सद्वारपत्रं च सिताश्मसुन्दरम् । तत्र प्रशस्ति च गिरिं च देवता-मकारयत् कारयितव्यकोविदः ॥२॥ साधितोभयंलोकाप्त-जन्मनोरयमात्मनः । कीर्योर्दोलानिभं तत्र, तोरणद्वयमातनोत् ॥३॥ पुरे स्तम्भनके तस्मि-न्नेका वापीमपापधीः । द्वे प्रपे त्रीनयं शालान्, विशालान् परितो व्यधात् ॥४॥ ॥ इति स्तम्भनाधिकारः सप्तमः ॥ वस्तुपालसुतो जैत्रः, पेटलापद्रपत्तने । दिगम्बरजिनागारे, धनपालेन कारिते ॥१॥ मातामहस्य सुकृत-कृते कान्हडमन्त्रिणः । मूलनायकमर्हन्तं, नेमिनाथं न्यवीविशत् ॥२॥ युग्मम् तत्रैव पत्तने जैत्र-सिंहोऽयमतिपुष्कलम् । मण्डलं पेटलार्यायाः, पद्रदेव्याः पुरोऽकरोत् ॥३।।
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy