________________
अनुसन्धान-७०
.
मन्त्री भृगुपुरे वस्तु-पालो वस्तुविचारवित् । शकुनीविहारकरिणा, भेत्तुमात्मभवार्गलाम् ॥१॥ . सन्मुखे देवकुलिका-द्वयं दन्तद्वयोपमम् । आरादारासनीयाश्म-मयं स्फारमकारयत् ॥२॥ युग्मम् तद्गूढमण्डपेऽजित-शान्त्याख्यं परिकरस्थशेषजिनम् । . ललितादेव्याः स्वस्य च, सुकृताय चकार जिनयुगलम् ॥३॥ तद्गूढमण्डपक्रोडे, विशतां दक्षिणे सताम् । स्वमूर्ति कारयामास, ललितां(ता)कलितां(ता)मयम् ॥४॥ . पित्तला(ला)निर्मितां स्नात्र-प्रतिमां सुव्रतप्रभोः । लेपमूर्तेरलेपाला, तेजःपालोऽत्र तेनिवान् ॥५॥ तत्र स्नात्रप्रतिमा-पृष्ठे, पुरतश्च सुव्रतजिनेन्दोः । मूर्तिमकारयदनुपम-देव्याः स्वस्याऽपि सुकृती सः ॥६।। अत्राऽश्वबोधतीर्थे , परितस्तीर्थेशदेवकुलिकानाम् । दण्डांश्च पञ्चविंशति-मकारयत् काञ्चनानेषः ||७|| पुराद् बहिरसौ पुष्प-वनं तलतमालवत् । चक्रे जिनार्चनविधा-वनन्तलतमालवत् ।।८।। वडऊसणपल्लीस्थित-चैत्ययोर्मूलनायकौ । नाभेय-नेमिनौ वस्तु-पालस्तु समतिष्ठिपत् ॥९॥
॥ इति भृगुकच्छाधिकारः पञ्चमः ।। दीर्वीनगरे वैद्य-नाथावसथमण्डपे । वस्तुपालो व्यधात् स्वर्ण-कुम्भानेकोनविंशतिम् ॥१॥ स्वेश-तत्प्रियतमा-स्वकनिष्ठ-ज्येष्ठमूर्ति-निजमूर्तिसनाथम् । वैद्यनाथहरगर्भगृहाग्रे, वामतो व्यधित खत्तकमेषः ॥२॥ नवस्वर्णमयांस्तत्र, खत्तके कलशानयम् । नवखण्डधरोद्योति-करोत्प्र(करान् प्र)द्योतनानिव ॥३॥