________________
अनुसन्धान-७०
निरन्तरं, याम- प्राप्नवाम, श्रयामेत्यर्थः, को (कः?) - आत्मनि आत्मनो वा लयो येषां ते सुकलया- योगीन्द्राः, सकलया इवाऽऽचराम, कर्तुः विपीति क्विपि पञ्चम्या आमवि सुकलयाम- परमात्मलयलीनयोगीन्द्रलीलामकलयामेत्यर्थः, तवाऽऽगमं श्रुत्वा परमब्रह्मलयलीना भवामेति भावः; तथा हे सुकल !सुष्ठ - अतिशयेन कलो- मधुरध्वनिर्यस्य स सुकलस्तस्याऽऽमन्त्रणम्, त्रैलोक्यपरमाप्यायनकारित्वाद् भगवद्ध्वनेर्माधुर्यातिशयः प्रसिद्ध एव; हे समवामह !सर्वशत्रुघातक !, यामभरं- व्रतभारं वयं, क्रिया गुप्ता, तत्कर्षणे तु वयं यामभरं समवाम- संरक्षाम, सम्पूर्वस्याऽव रक्षणादावेतस्य धातोः पञ्चम्या आमवि रूपं, हेत्यवधारणे ॥७॥
हततमार ! भवान् भविनामनी-ह! तत माऽरभ नूनमुपेक्षणम् । हततमा रभसा पततां भवे-ऽहतत ! मारमतङ्गजकेसरी ॥८॥
अवचूरिः- हे हततमार !- निर्मूलोन्मूलितवैरिवार !, अतिशयेन हतं - हततमम्, आरं- अरिसमूहो येन स तथा, तस्याऽऽमन्त्रणम्, हे अनीह !निरीह !, हे अरभ !- त्यक्तविषयसुख !, हे अहतत !- अखण्डितश्रीक !, यद्वा हतता- निन्द्यता, न विद्यते यस्य सोऽहततस्तस्याऽऽमन्त्रणं; भवान् भविना- प्राणिनां, भवे- संसारे, रभसा पततामधो गच्छतां सतां, नूनंनिश्चितम्, उपेक्षणम्- उपेक्षा, मा तत वत्तनवात्(?) किन्तु सर्वेषां भव्यानां भवनिस्तारणोपक्रमं कृतवानिति भावः । कथम्भूतो भवान् ? - हततमा:- हतंगतं, तमः- पापमज्ञानं वा यस्मात् स तथा; पुनः कथम्भूतो भवान् ? - मारमतङ्गजकेसरी- कन्दर्पकरिपञ्चाननः ॥८॥
समत तारयशोभर ! मत्सरा-स ! मततार ! विभो ! मम मानसे । समततारभिदाशु भवान्महा-समत ! तारय माऽसम ! सेवकम् ॥९॥
अवचूरिः- हे तारयशोभर !- तारवत् - रूप्यवदुज्ज्वलो यशोभरो यस्य स तथा, तस्याऽऽमन्त्रणम्, हे मत्सरास ! मत्सरं- क्रोधमस्यति - निक्षिपति, कर्मणोऽणी(णि)ति अणि [मत्सरासस्तस्याऽऽमन्त्रणम्]; हे मततार !