________________
जुलाई-२०१६
मतामभीष्टां, तां- श्रियं, राति- ददातीति डे मततारस्तस्याऽऽमन्त्रणम्; हे विभो ! मम मानसे, समत- सततं गच्छ, अत - सातत्यगमने इति वचनात्; तथा हे समततारभित् ! - समं- सकलं, ततं- विस्तृतं, आरं- अरिसमूह, [भिनत्ति - नाशयतीति] क्विपि; हे महासमत ! - महती समता- रागद्वेषवियुक्तता यस्य स तथा, तस्याऽऽमन्त्रणम्; हे असम !- अतुल्य !, भवात्- संसाराद्, आशु- शीघ्रं, मा- मां, सेवकं तारय- परपारं प्रापय ॥९॥
कमल कामद ! देव ! सदाऽपि सत्कमलकाऽमद ! दातुमनुत्तरम् । कमल ! कामद ! कोपदवानले-ऽकमलकाऽऽमद भव्यतनूमताम् ॥१०॥
अवचूरिः- हे देव !, हे कामद !- वाञ्छितप्रद !, हे सत्कमलक !सतां- [सज्जनानां कृते कमलकः -] सूर्यः; हे अमद !- मदवर्जित !, हे कमल !- [जलतुल्य !], कोपदवानले- क्रोधाग्नौ, हे कामद ! - कामकन्दर्प द्यति- छिनत्तीति डे; हे अकमलक !- न विद्यते के- आत्मनि मलो-. मालिन्यं यस्य सोऽकमलकस्तस्याऽऽमन्त्रणम्; हे आमद !- रागच्छेदक !, भव्यतनूमतां- भव्यजीवानाम्, अनुत्तरम्- अनुपमं, कं- सुखं, दातुं सदाऽपि अल- डलयोरैक्यादड- उद्यमं कुरु ॥१०॥
समर ! मोदितविष्टपरिष्टपाऽसमरमोऽदित शं भविनां भवान् । समरमो दितमोह ! तमोहराऽसमरमोदितपः सुगुणातत ! ॥११॥
अवचूरिः- हे समर !- सर्वद !, मोदितविष्टपविष्टप ! - मोदिताआनन्दिताः, विष्टपेष्विति विश्वेषु, विष्टा- निविष्टाः ये सुरादयस्तान् पातीति डे विष्टपविष्टपा:- सुरेन्द्रादयो येन स मोदितविष्टपविष्टपस्तस्याऽऽमन्त्रणम; भवान् भविनां शं- सुखम्, अदित- दत्तवान्, कथम्भूतो भवान् ? - असमरमो - असमा- अतुल्या, रमा- त्रिभुवनैश्वर्यलक्ष्मीर्यस्य स तथा; हे दितमोह !छिन्नमोह !, हे तमोहर !- अज्ञानापहारिन् !, हे सुगुणातत - सु- सुतरां, गुणविस्तृत !; भवान् कथम्भूतः ? - समरमः - समरं- सङ्ग्रामं मनातीति डे; समरमोदितप: - समरान्- अमरान् मोदयतीत्येवंशीलं तपो यस्य स