SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ जुलाई-२०१६ क्रिया गुप्ता, तत्कर्षणपक्षे तु नतं- प्रणतं, मा- मां, ततो- मन्मथरिपोः सकाशात्, अव- रक्ष; अथवा स्वामिन् त्वयि प्रभवत्यपि मन्मथो रिपुरिव [प्रभवति] यतस्ततो हेतोः मां नतमव, शेषं प्राग्वत् ॥५॥ सुकरवाम तवाऽसमशासनं, सुक ! रवाम गुणस्तवनं तव । सुकर ! वाम सदा तव दासतां, सुकरवामजयाः प्रभवामह ! ॥६॥ अवचूरिः- अस्मिन् वृत्ते प्र[थमाद्वितीया] योगाद् वाक्यभेदस्तथाहि - हे सुकर ! तवाऽसमशास- विरूपशासनम् [आज्ञारू]पं, सुकरवाम- सुपूर्वस्य डुकंग करणे [इत्यस्य धातोः पञ्चम्या आम]वि रूपमिदं, सुष्ठ आरा[धयाम इत्यर्थः], [हे सुक !] - सु- शोभनं, कं- सुखं - पर[ब्रह्मणि रमणरूपं यस्य स सुकः], तस्याऽऽमन्त्रणं; तव गुणस्तवनं- गुणस्तुतिं वयं रवाम- ब्रवाम, टुत्तु(क्षु)रुकुंक् शब्दे इत्यस्य धातोः पञ्चम्या आमवि रूप; हे सुकर ! - सुपूजितौ सर्वलक्षणोपेतत्वात् करौ- हस्तौ यस्य स सुकरस्तस्याऽऽमन्त्रणं, सदासर्वकालं, तव दासतां- भृत्यतां, वयं वाम- व्रजाम, वांक्- गति-गंधनयोरित्यस्य धातोस्तस्मिन्नेकवचने रूपं, हे प्रभो !, हे आमह !- रोगहिंसक !, सुकरवामजयाः - सुकरः- सुखसाध्यः, वामा- प्रतिकूलाः शत्रवो ये, तेषां जयः- पराभवो येषां ते सुकरवामजयाः वयं; क्रिया गुप्ता, तत्कर्षणपक्षे तु प्रभवाम- तव प्रसादतो निखिलवैरिसुकरविजयेनाऽप्रतिहतसामर्थ्या भवाम, ह इत्यवधारणे पादपूरणे वा ॥६॥ सुकलयाम विभो ! तव सेवनं, सुकल ! याम मतं तव सन्ततम् । सुकलयाम सदा भवदागमात्, सुकल ! यामभरं समवामह ॥७॥ अवचूरिः- अस्मिन्नपि प्रतिपदं क्रियास्तथैव, हे विभो ! तव सेवनंसेवां वयं सुकलयाम- विरचयाम, सुपूर्वस्य कलण् - संख्यान-गत्योरित्यस्य धातोः पञ्चम्या आमवि रूपं, हे सुकल - सु- शोभना कलात्रिभुवनजनमनःपरमप्रमोदसम्पादनलक्षणा विविधातिशयवशविश्वविश्वविस्मयविधानरूपा यस्य स सुकलस्तस्याऽऽमन्त्रणं, तव मतं- शासनं, सन्ततं
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy