SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७० त्यर्थः; सोऽयते- गच्छति, कथम् ? - अलम्- अत्यर्थं, कां ? - विमलमोक्षसनातनयां- [ ]श्चित्तश्रियम् (?) ॥३॥ विभव ये वचनं विनिशम्य ते, विभ ! वमन्ति महोद ! यमायिनः । विभवबान्धवमोहममोह ! ते, विभवमन्ति महोदयमायिनः ॥४॥ अवचूरिः- हे विभव !- विगतसंसार !, हे विभ ! विशिष्टा भा - दीप्तिर्यस्य स विभस्तस्याऽऽमन्त्रणं, हे महोद !- तेजःप्रदः ! उत्सवप्रदो वा, मह उत्सव-तेजसी इति वचनात्, हे अमोह !- निर्मोह !, हे विभव् !- विगतो भवो - जन्म येषां ते विभवा - जन्मरहिताः; विभ[ ], जनान् विभवान् जन्मरहितान् करोतीति णे [विभवयति, तत्र क्विपि]- हे विभव् !, ये- जनास्ते -तव वचनं विनिशम्य- श्रुत्वा, विभवबान्धवमोहं- स्नेहं, वमन्ति- उद्गिरन्ति त्यजन्तीत्यर्थः, यमायिन:- यमान् - व्रतानि, यमेषु वा यन्ति आयन्ति वेत्येवंशीला यमायिनः - [व्रतसेविन इत्यर्थः], अथवा ते - तव [यमायि]न:, निरुक्तं प्राग्वत्; महोदयमायिनः- महोदयं - मोक्षं [पुण्यो ?]दयं वा अमन्तिगच्छन्ति, कथम्भूताः ? - आयिनः- आयो - लाभ: केवलसंवि[त् तद्वन्तः], सम्यग्[ज्ञानवन्त] इत्यर्थः ॥४॥ प्रभवतीह विभो ! त्वयि नित्यशः, प्रभवतीव रिपुर्मम मन्मथः । प्रभव ! तीर्थपते ! सुमते रमा-प्र ! भवतीरद ! माऽव नतं ततः ॥५॥ अवचूरिः- हे विभो ! स्वामिन् !, इह- जगति त्वयि प्रभवतिजगज्जन्तुजातत्राणैकता[रूपविभु]त्वमैश्वर्यमत्र प्रभवति सति, मम मन्मथः[कामदेव:], [रिपुरिव] - शत्रुरिव, नित्यशो- नित्यं, प्रभवति- [.....] सर्वप्रथनसमर्थो भवतीति, [कन्द]र्प - रिपुरावां प्रभोः पुरतो वि[ज्ञप्त्यर्थं विज्ञपयन्नुत्त[ ]; प्रभव तीर्थेत्यादि- हे तीर्थपते !- [तीर्थना] थ !, हे प्रभव !- उत्पत्तिस्थान !, कस्याः ? - सुमते:- ज्ञानसंविदः, हे रमाप्र !रमां - लक्ष्मी प्राति – पूरयतीति रमाप्रस्तस्याऽऽमन्त्रणं, हे भवतीरद !- संसार[समुद्रतट] प्रद !, मा- माम्, अवनतं- प्रणतं सन्तं, ततः- कन्दर्पसकाशात्;
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy